॥ Achyutashtakam Sanskrit Lyrics ॥
॥ अच्युतशतकम् ॥
वेदान्तदेशिकविरचितम् ।
(तिरुवहीन्द्रपुराख्ये औषधगिरौ)
(इदं शतकं मूलं प्राकृतभाषायामास्ते ।)
(लेखकैरेव संस्कृते परिवर्तितं मूलमेव अत्र दीयते ।)
नमत त्रिदशानां नाथं सत्यं दासानामच्युतं स्थिरज्योतिः ।
गरुडनदीतटतमालं अहीन्द्रनगरौषधाचलैकगजेन्द्रम् ॥ १ ॥
किङ्करसत्य स्तुतिस्तव स्वयम्भू गेहिनी विलासव्याहृतिमयी ।
फणिता बालेन मया पञ्जरशुक जल्पितमिव करोतु प्रसादम् ॥ २ ॥
मलिनमपि भाषितं मम किङ्करसत्य तव कीर्तिज्योत्स्नाप्रसरे ।
लग्नं लभतां विशुद्धिं सलिलमिव त्रिपथगास्रोतोगतम् ॥ ३ ॥
त्रस्तरि नयेन स्थापिता शोभतां त्रिदशानां नाथ तव समाजे ।
वन्दित्व महितानां मध्ये श्रुतीनां बालिशा मम स्तुतिः ॥ ४ ॥
अस्मद्गुरूणामच्युत जिह्वासिंहासने लब्धप्रतिष्ठः ।
प्रतिपादितपरमार्थो वारयस्यपण्डितत्वमस्माकम् ॥ ५ ॥
हृदयेषु देशिकानां जाह्नवीलहरीषु पूर्णचन्द्र इव स्फुटः ।
कलुषजलेष्विव हंसः कषायकर्बुरेषु तिष्ठस्यच्युत न क्षणम् ॥ ६ ॥
आगममात्रप्रमाणः आगोपीजनं प्रकाश निजमाहात्म्यः ।
श्रद्धितहृदयसुलभो दूरं मुञ्चसि नतसत्य दोलायमानान् ॥ ७ ॥
सदा क्षपितसकलहेयं शरणागतसत्य सत्यज्ञानानन्दम् ।
उल्लङ्घितत्रिविधान्तमुपनिषदां शतानि गायन्ति त्वाम् ॥ ८ ॥
करोषि न क्रियसे केनापि स्थापयसि न संस्थाप्यसेऽनन्यस्थितः ।
हरसि निखिलं न ह्रियसे अहीन्द्रनगरेन्द्रानघज्योतिस्स्फुरन् ॥ ९ ॥
अणुप्रमितस्याप्यच्युत शक्तिस्तव सकलधारणादिप्रभूता ।
तेन प्रतिवस्तुपूर्णः श्रूयसेऽप्रतिहतनिजस्थितिः सर्वगतः ॥ १० ॥
सकलानां धरणनियमनस्वामित्वनियमसंस्थितः सर्वतनुः ।
श्रूयसेऽच्युत सर्वः सदा दर्शितकार्यकारणत्वकर्बुरः ॥ ११ ॥
पुरुषप्रधानशरीरो भुवनानां भवस्यच्युतोपादानम् ।
निजसङ्कल्पसनाथो वहसि निमित्तत्त्वमप्यद्भुतशक्तिः ॥ १२ ॥
विषमगुणाङ्कुरप्रकरे जलमिव सामान्यकारणं तव केलिः ।
निजकर्मशक्तिनियता अच्युत ब्रह्मादि स्थावरान्तविशेषाः ॥ १३ ॥
पुरुषास्तव विभूतिः अच्युत लक्ष्म्याः स्त्रीसंज्ञाः ।
नास्ति परं युवयोः सापि श्रीर्भवति तव किं पुनरितरत् ॥ १४ ॥
न खलु तव सदृशाभ्यधिकाः नाथ त्वमेव सर्वलोकशरण्यः ।
एतावज्ज्ञानसारमिति ज्ञातुं त्रिदशनाथेतरविचिन्ता ॥ १५ ॥
भाति फणीन्द्रपुराधिप प्रतिपालयत्सु प्रकटप्रभूतफला ।
अपि द्रुहिणप्रमुखैः आज्ञप्तिस्तवालङ्घनीयप्रभावा ॥ १६ ॥
नियमविधीनां प्रवृत्तिः सर्वेषामपि दाससत्योद्दिश्य त्वाम् ।
श्राद्धनिमन्त्रितब्राह्मणसमाधिसिद्धां लभन्ते त्रिदशा भुक्तम् ॥ १७ ॥
आराध्य त्रिदशविलयेऽच्युत नित्यं न तिष्ठसि यदि नाम त्वम् ।
कर्मणां कल्पितानां करिष्यति कल्पान्तरेषु को निर्वेशम् ॥ १८ ॥
कल्पयसि काङ्क्षितानि कल्पद्रुम इव श्रीकाञ्चनलतासहितः ।
नतसत्य सदाफलानि निजच्छायानिर्भिन्ननित्यतापत्रिभुवनः ॥ १९ ॥
सकलागमानां निष्ठा सकलसुराणामप्यन्तर आत्मा ।
सकलफलानां प्रसूतिः सकलजनानां समः खलु नतसत्य त्वम् ॥ २० ॥
इति सर्वेषां समानः सत्यस्थितो दाससत्य सदा परिपूर्णः ।
कथं वहसि पक्षपातं पाण्डवप्रमुखेषु प्रेषणमपि सहमानः ॥ २१ ॥
विषमे कर्ममार्गे विपरिस्खलतां विह्वलितकरणानाम् ।
नाथ निखिलानामन्यो नास्ति त्वन्नतसत्य हस्तालम्बः ॥ २२ ॥
ज्ञानस्य कोऽविषयोऽच्युत करुणायास्तव को दूरस्थितः ।
शक्तेः कोऽतिभरस्तस्मात्खलूपायस्त्वमेव स्वयं सिद्धः ॥ २३ ॥
सङ्कल्पकर्णधारः किङ्करसत्य भवसागरेऽतिगभीरे ।
अनघस्त्वं खलु पोत आत्मनः कृपासमीरणेन प्रयुक्तः ॥ २४ ॥
अच्युत न ददति मोक्षमीश्वरभावेन भाविता इतरसुराः ।
रात्रिं परिवर्तयितुं लक्षमालेख्य दिनकराणामपि न क्षमम् ॥ २५ ॥
अमृतरससागरस्येव अहीन्द्रपुरनाथ निर्मलमहार्घाणि ।
तीर्यन्ते न विगणयितुं अनन्यसुलभानि तव गुणरत्नानि ॥ २६ ॥
भूषितश्रुतिसीमन्तो भुजगेन्द्रपुरेश सर्वगुणसीमान्तः ।
क्षपिततृषा मलमोहो मुनीनां हृदयेषु स्फुरसि श्यामलमयूखः ॥ २७ ॥
शुभलक्षणश्रीवत्सः शोभसे निर्मुक्तविरहक्षणश्रीवत्सः ।
रणदेवन सविहगः उद्भटगरुडनदीतीरवनसविधगतः ॥ २८ ॥
अकुमारयौवनस्थितमहीन्द्रपुरनाथाभिमतमनुरूपम् ।
नित्यं स्वभावसिद्धं श्रूयते सूरिमहितं सुखं तव रूपम् ॥ २९ ॥
त्रिगुणं तस्य विकाराः अच्युत पुरुष इत्यागमगण्यमानाः ।
अर्थास्तव खलु समस्ताः परस्मिन् रूपे भूषणास्त्रस्वरूपाः ॥ ३० ॥
निर्यन्ति त्वत्तोऽच्युत निक्षपितविपक्षनिष्ठुरपराक्रमणाः ।
संस्थापितपरमधर्माः साधु परित्राणसत्फला अवताराः ॥ ३१ ॥
हरिमणिसदृक्ष निजरुचिहरितायमान भुजगेन्द्रपुरपर्यन्तः ।
काले दासजनानां कृष्ण घनो भवसि दत्तकारुण्यरसः ॥ ३२ ॥
गरुडनदीकच्छारण्ये लक्ष्यसे लक्ष्मी मही करेणु मनोहरः ।
दृश्यमानबहुलदानो दिशा गजेन्द्र इव खण्डितदनुजेन्द्रद्रुमः ॥ ३३ ॥
मुखचन्द्रमौलि दिनकरमध्यस्थितस्तव चिकुरभारान्धकारः ।
अघटितघटनाशक्तिं सत्यं स्थापयति दाससत्य समग्राम् ॥ ३४ ॥
परिहसितपूर्णचन्द्रं पद्मसदृक्षप्रसन्नलोचनयुगलम् ।
सङ्कल्पितदुरितान्यपि संस्मृतं हरति दाससत्य तव मुखम् ॥ ३५ ॥
माहात्म्यं तव महितं माङ्गलिकं तुलसीकौस्तुभप्रमुखानाम् ।
अच्युत स्थिरवनमालं वत्सं दर्शयति लक्ष्मी लक्षणसुभगम् ॥ ३६ ॥
निर्विशति नित्यतापो देवजनो देवनायक विधिप्रमुखः ।
शीतलशान्तप्रभूतां छायां तव विपुलबाहुकल्पद्रुमाणाम् ॥ ३७ ॥
सङ्कल्पचन्द्रक्षोभितत्रिगुणोदधि विपुलबुद्बुदप्रकरैः ।
ब्रह्माण्डैरपि भरितं किङ्करसत्य तव कस्मान्नु कृशमुदरम् ॥ ३८ ॥
नाभिरुहं तव नलिनं भुजगेश्वरनगरनाथ शोभते सुभगम् ।
मध्यस्थितब्रह्मभ्रमरं वत्सासनलक्ष्मीपादपीठसदृक्षम् ॥ ३९ ॥
दृढपीडितमधुकैटभशोणितपटलपरिपाटलाम्बरघटिता ।
राजत्यच्युत मुखरा रतिनाथ गजेन्द्रशृङ्खला तव रशना ॥ ४० ॥
दासानां सत्य दृश्यते दानववीराणां दीर्घनिद्राशयनम् ।
तवोदरस्थितत्रिभुवनप्रासादस्तम्भसच्छायमूरुयुगम् ॥ ४१ ॥
जानुमणिदर्पणेन च जङ्घामरकतकलाचिकया च धन्या ।
अच्युत न मुञ्चति कान्तः लक्ष्मीरिव सरोजलाञ्छनौ तव चरणौ ॥ ४२ ॥
श्रुतिसीमन्तप्रसूनं शोभते नतसत्य तव सर्वशरण्यम् ।
क्रमणक्षणजनितसुरनदीप्रशमितत्रैलोक्यपातकं पदपद्मम् ॥ ४३ ॥
इति त्रिभुवनैकमूलमास्वादयन्त्यनघा अमृतस्वादुरसम् ।
ओषधिमहीधरपार्श्व उदितं त्वामोषधिमिव दासरुजाम् ॥ ४४ ॥
सिद्धाञ्जनमिव श्यामां तव तनुं निजविलोचनेषु क्षिपन्तः ।
अच्युत लक्ष्मीनिवासं नित्यनिगूढं निधिमिव पश्यन्ति त्वाम् ॥ ४५ ॥
विघटित निबिडान्धकारो घटमानज्योतिस्त्रिलोकैकग्रहपतिः ।
दृष्टगतो येषां त्वं नमत्सत्य न खलु तेषां मोहत्रियामा ॥ ४६ ॥
विषयरसे विरक्ताः विकारजननैरपि च न खलु विक्रियमाणाः ।
जीवन्मुक्तसदृशा अच्युत दृश्यन्ते पावनास्तव भक्ताः ॥ ४७ ॥
गन्धर्वनगरस्वप्नसदृक्षाणां श्रियां वनसरिताम् ।
न स्मरति त्वद्गृहीतः शरणागतसदामदो जीवगजः ॥ ४८ ॥
न महयन्ति ज्ञानवन्तः तरङ्गडिण्डीरबुद्बुदसदृक्षाणि ।
विधिप्रमुखाणां पदानि घनकन्दलीकन्द कदलीस्तम्भसमानि ॥ ४९ ॥
दृष्टस्वपरस्वभावाः पुरुषा गृहीत्वा स्वामिनस्तव शीलम् ।
नाथ नतसत्य सघृणाः न मुञ्चति कथमपि सर्वजनसौहार्दम् ॥ ५० ॥
मानमदेर्ष्यामत्सरदम्भासूयाभयामर्षलोभमुखाः ।
दृश्यन्ते न मोहसुताः दोषा दासानां सत्य तव भक्तानाम् ॥ ५१ ॥
येषां मतिरितरमुखी कालः सकलोऽपि तेषां कलिविस्तारः ।
ये तव पदे प्रवणाः नास्ति कलिर्नागपतिनगरपते तेषाम् ॥ ५२ ॥
अत्यासन्नविनाशाः अच्युत पश्यन्ति तावके भक्तजने ।
मोक्षरुचीनां मूढा दिवसकरमण्डल इव च्छिद्रम् ॥ ५३ ॥
नित्रुटितदुर्मानघनाः निर्मलगुणघटिततारकाप्राग्भाराः ।
भासमानभक्तिज्योत्स्नाः नतसत्य स्फुरन्ति नभोनिभास्तव भक्ताः ॥
न खलु यमविषये गतिर्नतसत्य पदाम्बुजं तव प्रपन्नानाम् ।
स्खलितानामपि यथायोग्यं शिक्षा शुद्धान्तकिङ्कराणामिव लघ्वी ॥ ५५ ॥
कर्मगतिदोषदुःखिताः कृतान्तभ्रुकुटीभुजङ्गीदर्शनत्रस्ताः ।
अर्चन्ति तव चरणौ अच्युत प्रभ्रष्टमन्मथरसास्वादाः ॥ ५६ ॥
आलगति तव चरणौ अच्युत विधिनाऽप्यर्चनाऽऽचरिता ।
यैकान्तप्रयुक्ता शेषामिव स्वयं शिरसा प्रतिगृह्णासि ताम् ॥ ५७ ॥
तव मुखज्योत्स्ना द्रावितमानसशशिकान्तप्रवाहसन्निभबाष्पान् ।
अच्युत न मुञ्चसि भक्तान् कदम्बगोलनिभकण्टकायमाननिजाङ्गान् ॥
सर्वेऽपि निर्वैराः शरणागतसत्य गृहीतशाश्वतधर्माः ।
गतसङ्गास्तव भक्ताः यान्ति त्वामेव दुर्लभमितरैः ॥ ५९ ॥
अहिपतिनगरेन्द्र त्वां आसन्नमपि गगनमिव सदा दुर्ग्रहम् ।
विषयेषु विलगन्तः त्वरमाणा अपि न लभन्ते डोलायमानमनसः ॥ ६० ॥
भक्तास्तावकसेवारसभरिताः सकलरक्षणोत्सुकरुचिना ।
करणानि धरन्ति चिरं काङ्क्षितमोक्षा अप्यच्युत त्वया स्थापिताः ॥
स्थिरगुणगिरिजनितैः सन्तारयसि नतसत्य निजभक्तैः ।
जन्मपरिपाटीजलधिं जङ्गमस्थिरसेतुदर्शनीयैर्जनान् ॥ ६२ ॥
प्रशमितभवान्तरभयाः प्राप्तं प्राप्तं हितमिति परिपश्यन्तः ।
भावयन्ति तव भक्ताः प्रियातिथिमिव नतसत्य पश्चिमदिवसम् ॥ ६३ ॥
प्रकटतिमिरे भुवने पात्रप्रतिष्ठापितपरमज्ञानप्रदीपाः ।
नीयन्तेऽच्युत त्वया निजं पदं सदा स्वयम्प्रभं कृतकार्याः ॥ ६४ ॥
दृढतीव्रभक्तिनयनाः परिपश्यन्तोऽहीन्द्रपुरनाथ त्वाम् ।
प्राप्तास्तव सायुज्यं पङ्क्तिं पूरयन्ति पन्नगेन्द्रमुखानाम् ॥ ६५ ॥
सन्नतसुलभमच्युत समाधिसोपानक्रमविलम्बविमुखिताः ।
शरणं गत्वा त्वां मुक्ता मुचुकुन्द क्षत्रबन्धुप्रमुखाः ॥ ६६ ॥
देवानां पशुसमानो जन्तुर्गत्वा देवनाथ तव पदम् ।
तैरेव सर्वैः संसरमाणैर्भवति सदा दत्तबलिः ॥ ६७ ॥
मोहान्धकारमहार्णवमूर्च्छितमायामहारजनिप्रत्यूषः ।
अच्युत तव कटाक्षो विमुक्तिप्रस्थानप्रथमपरिकरबन्धः ॥ ६८ ॥
मोक्षसुखवृक्षमूलं मोहजरातुरमहारसायनप्रवरम् ।
सकलकुशलैकक्षेत्रं किङ्करसत्य तव कीर्तनममृतनिभम् ॥ ६९ ॥
नास्त्यभिक्रमनाशो विच्छेदेऽपि प्रत्यवायप्रसङ्गः ।
स्वल्पाऽपि तव सपर्या रक्षत्यच्युत महत्तराद्भयात् ॥ ७० ॥
अप्रसादे अप्रसन्नास्तव प्रसादे दाससत्य प्रसन्नाः ।
आराध्या भवन्ति परे किं तैः प्रसङ्गलम्भितप्रभावैः ॥ ७१ ॥
इतरत्रिदशाः प्रसन्नाः किङ्करसत्य मम किं नु करिष्यन्ति हितम् ।
नीहारघनशतैर्न खलु पूर्यते कथमपि चातकतृष्णा ॥ ७२ ॥
अनुगतसुखमृगतृष्णा अच्युत विश्राम्यति तव मामकतृष्णा ।
प्रवाहेषु प्रसृतायाः आश्रितप्रवहद्धनकृपासरितः ॥ ७३ ॥
विकलसकलाङ्गविषमान् धर्मान् नतसत्य ध्वजनिभान् धारयन् ।
कान्तारपान्थक इव स्खलच्चरणोऽस्मि कातरविशीर्यमाणः ॥ ७४ ॥
स्थिरधर्मवर्मस्थगितं अधर्मप्रवणानामग्रस्कन्धप्रवृत्तम् ।
अघटमानविप्रतीसारमच्युत मां हससि नूनं लक्ष्मीसमक्षम् ॥ ७५ ॥
तरितुमच्युत दुरितमस्मिन् देह एक दिवसेऽपि कृतम् ।
कालोऽलं न सकलः करुणायास्तव पूर्णपात्रमस्म्ययम् ॥ ७६ ॥
अच्युत तव गुणानां मम दोषाणामपि नास्ति कुत्रापि गणना ।
तथापि जयः प्रथमानामधिकं लीनानां भवति न खलु दौर्बल्यम् ॥ ७७ ॥
रात्रिं दिवसमच्युत त्रुटितः पतन्त्यायुर्द्रुमखण्डानि ।
दृष्ट्वापि दृप्तमनसं बालमिदानीमपि भरस्व मामप्रमत्तः ॥ ७८ ॥
निश्वासशङ्कनीये देहे पटलान्तसलिलबिन्दुसदृक्षे ।
जानासि नतसत्य त्वं जरत्करणेऽपि दीर्घयौवनतृष्णम् ॥ ७९ ॥
अज्ञातनिजकर्तव्यं यदृच्छया ज्ञातेषु मामपि प्रतिकूलगतिम् ।
इति निजस्वभावव्रीलितं हातुं दासानां सत्य न खलु तव युक्तम् ॥ ८० ॥
कोऽहं किं करणीयं परिहरणीयमपि किमिति जानासि सर्वम् ।
शक्नोषि च तद्धितं मम त्रिदशेश्वर कुरुष्व निजहृदयनिक्षिप्तम् ॥ ८१ ॥
इदानीमुपर्यप्ययं गुणगृहीतो दारुपुत्रक इव परवशः ।
तस्यापि मम त्रिदशेश्वर त्रिष्वपि करणेषु भव सुखसङ्कल्पः ॥ ८२ ॥
निजकर्मनिगलयुगलमच्युत कृत्वा मम प्रियाप्रियवर्गे ।
कदा घोरकलेबरकारागृहकुहरनिर्गतं करिष्यसि माम् ॥ ८३ ॥
हार्दे त्वयि कदा विश्रान्तं ब्रह्मधमनिमार्गं गमिष्यन्तम् ।
दिनकरदत्ताग्रकरमच्युत द्रक्ष्यसि दयित डिम्भमिव माम् ॥ ८४ ॥
कदा अमानवान्ताः अग्निमुखा आतिवाहिकास्तव पुरुषाः ।
अतिलङ्घयिष्यन्ति मामच्युत तमोगहनत्रिगुणमरुकान्तारम् ॥ ८५ ॥
लङ्घितविरजासरितं लम्भित सदा शुद्धसत्त्वमय सौम्यतनुम् ।
कृतब्रह्मालङ्कारं करिष्यसि नतसत्य किङ्करं कदा माम् ॥ ८६ ॥
संसारसागरादुत्क्षिप्तं त्रिदशनाथ स्फुरितालोकम् ।
कदा करिष्यसि हृदये कौस्तुभमणिदर्पणमिव लक्ष्मीपुलकितम् ॥ ८७ ॥
कदा तव पादपद्मे भविष्यामि नतसत्य केलिक्रान्त त्रिभुवने
मदनरिपुमकुटमण्डनसुरसरित्स्रोतः सूचितमधुप्रवाहे ॥ ८८ ॥
उपनिषच्छिरः कुसुममुत्तंसयित्वा तव पदाम्बुजयुगळम् ।
दयितो भविष्यामि कदा दासो दासानां सत्य सूरिसदृक्षः ॥ ८९ ॥
अपुनर्निवृत्तियोग्यमवतारविहारसहचरत्वधन्यम् ।
आत्मसमभोगमात्रमनुभविष्यसि देवनाथ कदा नु माम् ॥ ९० ॥
इति स्फुटमनोरथं मामेतादृशवचनमात्रसारं वशगम् ।
कुरुष्व निजगुणगणैः सत्यं दासानां सत्य सदा स्वच्छन्दः ॥ ९१ ॥
बालप्लवग इव तरळो मारुतिजातिरिति सागरं तरितुमनाः ।
प्रार्थये त्वामच्युत काङ्क्षितपदपद्म क्षमस्व मम कापेयम् ॥ ९२ ॥
अच्युतविषयाक्रान्तं भवार्णवावर्तभ्रमि निस्त्रुट्यमानम् ।
जननी स्तनन्धयमिव मामुद्धृत्य सेवस्व स्वयं पथ्यम् ॥ ९३ ॥
कर्ममयघर्मतप्तं सुखमृगतृष्णाभिः कदाऽप्यतृष्णाकम् ।
कारय निर्वृतं मां करकाशिशिरैरच्युत कटाक्षैः ॥ ९४ ॥
तव चिन्तनविमुखानां दृष्टविषाणामिव दर्शनान्मोचयन् ।
अमृतमुखानामिव मामच्युत भक्तानां नयस्व नयनासारम् ॥ ९५ ॥
विषमिलितमधुनिभेषु च तृणप्रतिमेषु च प्रतिग्रहेषु प्रलुठितम् ।
अमृतनिधाविवाच्युत स्थापय त्वयि निर्ममं मम हृदयम् ॥ ९६ ॥
नित्यमस्मिन् कृपणे निक्षिप नमत्सत्य निधिसदृक्षौ ।
प्रवहन्नखप्रभाझरप्रशमितप्रणमत्सञ्ज्वरौ तव चरणौ ॥ ९७ ॥
शरणागत इति जनिते जनवादेऽपि यद्यच्युत न रक्षसि माम् ।
भवेत्खलु सागरघोषः सागरपुलिने तादृशं तव वचनम् ॥ ९८ ॥
निक्षिप्तोऽस्मि चागतिः निपुणैस्त्वयि नाथ कारुणिकैः ।
तांस्तव दृष्ट्वा प्रियान् भृतं नतसत्य भरस्वात्मनो भरम् ॥ ९९ ॥
नतसत्य पक्कणानीतगलितकिरातभ्रमनिजकुमारमिव नृपः ।
भविष्यद्यौवनवधूं वर इव मां लभस्व मन्त्रजनविज्ञापितम् ॥ १०० ॥
इति कवितार्किककेसरि वेदान्ताचार्य वेङ्कटेशविरचितम् ।
सुभगमच्युतशतकं सहृदयहृदयेषु शोभतां समग्रगुणम् ॥ १०१ ॥
इति वेदान्तदेशिकविरचितं अच्युतशतकं सम्पूर्णम् ।
– Chant Stotra in Other Languages -Achyutashtakam:
Achyuta Ashtakam in Sanskrit – English । Bengali । Gujarati । । Kannada । Malayalam । odia । Telugu । Tamil