Achyutashtakam 3 In Sanskrit

॥ Achyutashtakam 3 Sanskrit Lyrics ॥

॥ अच्युताष्टकम् ३ ॥
॥ अच्युताष्टकम् ३ श्रीवामनपुराणे ॥

श्री गणेशाय नमः ॥

अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम् ।
हंसं नारायणं चैवमेतन्नामाष्टकं पठेत् ॥ १ ॥

त्रिसन्ध्यं यः पठेन्नित्यं दारिद्र्यं तस्य नश्यति ।
शत्रुसैन्यं क्षयं याति दुःस्वप्नः सुखदो भवेत् ॥ २ ॥

गङ्गायां मरणं चैव दृढा भक्तिस्तु केशवे ।
ब्रह्मविद्याप्रबोधश्च तस्मान्नित्यं पठेन्नरः ॥ ३ ॥

इति श्रीवामनपुराणे विष्णोर्नामाष्टकस्तोत्रं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Maha Vishnu Slokam » Achyutashtakam 3 » Vishnora Ashtanama Stotram Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Ganeshastavanam Or Ganeshashtakam By Valmiki In Bengali