॥ Ashtapadi Sanskrit Lyrics ॥
॥ अष्टपदी ॥
(राग भैरव)
जयति निजघोषभुवि गोपमणिभूषणम् ।
युवतिकलधौतरतिजटितमविदूषणम् ॥ ध्रुवपदम् ॥
विकचशरदम्बुरुहरुचिरमुखतोऽनिशम् ।
जिघ्रतादमलमधुमदशालिनी भृशम् ॥ १ ॥
तरलदलसापाङ्गविभ्रमभ्रामितम् ।
निःस्थिरीभवितुमिच्छतु हृदितकामितम् ॥ २ ॥
मधुरमृदुहासकलिताधरच्युतरसम् ।
पिबतु रसनाऽपि मुहुरुदितरतिलालसम् ॥ ३ ॥
अमृतमयशिशिरवचनेषु नवसूत्सुकम् ।
श्रवणपुटयुगलमनुभवतु चिरसूत्सुकम् ॥ ४ ॥
विपुलवक्षस्थले स्पर्शरसपूरितम् ।
तुङ्गकुचकलशयुगमस्तु मदनेरितम् ॥ ५ ॥
मृदिततमकायदेवद्रुमालम्बिता ।
हर्षमतिशयितमुपयातु तनुलता ॥ ६ ॥
पुष्परसपुष्टपरपुष्टभृङ्गीमये ।
वसतिरपि भवतु मम निभृतकुञ्जालये ॥ ७ ॥
गीतमिदमेवमुरुभावगर्भितपदम् ।
रोचयतु कृष्णमिह सरससम्पदम् ॥ ८ ॥
इति श्रीदेवकीनन्दनजीकृताऽष्टपदी समाप्ता ।
– Chant Stotra in Other Languages –
Sri Vishnu Slokam » Ashtapadis or Ashtapadi Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil