Chaitanya Mahaprabhu’S Shikshashtaka In Sanskrit

॥ Sri Shikshashtaka by Chaitanya Mahaprabhu Sanskrit Lyrics ॥

॥ शिक्षाष्टक (चैतन्यमहाप्रभु) ॥

शिक्षाष्टकं

चेतो-दर्पण-मार्जनं भव-महा-दावाग्नि-निर्वापणं
श्रेयः-कैरव-चन्द्रिका-वितरणं विद्या-वधू-जीवनम् ।
आनन्द-अम्बुधि-वर्धनं प्रति-पदं पूर्णामृतास्वादनं
सर्वात्मस्नपनं परं विजयते श्रीकृष्ण संकीर्तनम् ॥ १ ॥

नाम्नां अकारि बहुधा निज-सर्व-शक्तिः
तत्रार्पिता नियमितः स्मरणे न कालः ।
एतादृशी तव कृपा भगवन्-ममापि
दुर्दैवम्-ईदृशम्-इहाजनि न-अनुरागः ॥ २ ॥

तृणादपि सुनीचेन तरोरपि सहिष्णुना ।
अमानिना मानदेन कीर्तनीयः सदा हरिः ॥ ३ ॥

न-धनं न-जनं न-सुन्दरीम्
कवितां वा जगदीश कामये ।
मम जन्मनि जन्मनि ईश्वरे
भवताद् भक्तिः अहैतुकी त्वयि ॥ ४ ॥

अयि नन्द-तनूज किंकरम्
पतितं मां विषमे-भव-अम्बुधौ ।
कृपया तव पाद-पंकज-
स्थित धूलि-सदृशं विचिंतय ॥ ५ ॥

नयनं गलद्-अश्रु-धारया
वदनं गद्गद-रुद्धया गिरा ।
पुलकैर् निचितं वपुः कदा
तव नाम-ग्रहणे भविष्यति ॥ ६ ॥

युगायितं निमेषेण चक्षुषा प्रावृषायितम् ।
शून्यायितं जगत् सर्वं गोविन्द-विरहेण मे ॥ ७ ॥

आश्लिष्य वा पाद-रतां पिनष्टु
माम्-अदर्शनान् मर्म-हतां करोतु वा ।
यथा तथा वा विदधातु लम्पटः
मत्-प्राण-नाथस् तु स एव न-अपरः ॥ ८ ॥

– Chant Stotra in Other Languages –

Chaitanya Mahaprabhu’s Shikshashtaka Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Shiva Mahima Ashtakam In Telugu