Danalilashtakam In Sanskrit

॥ DanalIlashtakam Sanskrit Lyrics ॥

॥ दानलीलाष्टकम् ॥
सदा चन्द्रावल्या कुसुमशयनीयादि रचितुं
सहासं प्रोक्ताः स्वप्रणयिग्रहचर्यः प्रमुदिताः ।
निकुञ्जेष्वन्योन्यं कृतविवधतल्पेषु सरसां
कथास्वस्वामिन्या सपदि कथयन्ति प्रियतमाम् ॥ १ ॥

अशेषसुकृतोदयैरखिलमङ्गलैर्वेधसा
मनोरथशतैः सदा मनसि भावितैर्निर्मिते ।
अहन्यतिमनोहरे निजगृहाद्विहारेच्छया
सखीशतवृताऽचलद्व्रजवनेषु चन्द्रावली ॥ २ ॥

समुद्ग्रथितमालतीकुरबकादिपुष्पावली-
गलत्परिमलोन्मदभ्रमरयूथसन्नादितम् ।
उदारमतिचित्रितं मृगमदादिभिर्बिभ्रती
मनोभवमदापहं किमपि केशपाशं सखी ॥ ३ ॥

श्यामेन्दोरनुरूपां विधिरचितां तारकामहं मन्ये ।
यत्तत्करनखकिरणो न जातु सख्यस्त्यजन्तीमाम् ॥ ४ ॥

कुङ्कुममृगमदमलयजचित्रितकुसुमं तदीयधम्मिल्लम् ।
नो किन्तु कुसुमधनुषस्तूणीरं सर्जितं विधिना ॥ ५ ॥

न धम्मिल्लो मौग्ध्यामृतजलमुचामेष निचयो
न पुष्पाणीमानि त्रिदशपतिमौर्वीपरिणतिः ।
न मुक्तागुच्छानि प्रकटसुखगात्रः करतरो
न काश्मीरोद्भूता सुभगतररेखा तडिदियम् ॥ ६ ॥

निसर्गसुन्दरोऽप्यालिसूक्ष्मचित्राम्बरान्तरे ।
गूढो भाव इवैतस्याः सोऽदृश्यत विलक्षणः ॥ ७ ॥

मत्समर्पितसिन्दूररेखोपरि परिस्थिता ।
मुक्ताफलावलीमाला सीमान्ते बिभ्रती बभौ ॥ ८ ॥

इति श्रीविठ्ठलेश्वरविरचितं दानलीलाष्टकं समाप्तम् ।

– Chant Stotra in Other Languages –

DanalIlashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Rama Chandra Ashtakam In English