Devyashtakam In Sanskrit

॥ Devyashtakam Sanskrit Lyrics ॥

॥ देव्यष्टकम् ॥
श्रीगणेशाय नमः ।
महादेवीं महाशक्तिं भवानीं भववल्लभाम् ।
भवार्तिभञ्जनकरीं वन्दे त्वां लोकमातरम् ॥ १ ॥

भक्तप्रियां भक्तिगम्यां भक्तानां कीर्तिवर्धिकाम् ।
भवप्रियां सतीं देवीं वन्दे त्वां भक्तवत्सलाम् ॥ २ ॥

अन्नपूर्णां सदापूर्णां पार्वतीं पर्वपूजिताम् ।
महेश्वरीं वृषारूढां वन्दे त्वां परमेश्वरीम् ॥ ३ ॥

कालरात्रिं महारात्रिं मोहरात्रिं जनेश्वरीम् ।
शिवकान्तां शम्भुशक्तिं वन्दे त्वां जननीमुमाम् ॥ ४ ॥

जगत्कर्त्रीं जगद्धात्रीं जगत्संहारकारिणीम् ।
मुनिभिः संस्तुतां भद्रां वन्दे त्वां मोक्षदायिनीम् ॥ ५ ॥

देवदुःखहरामम्बां सदा देवसहायकाम् ।
मुनिदेवैः सदासेव्यां वन्दे त्वां देवपूजिताम् ॥ ६ ॥

त्रिनेत्रां शङ्करीं गौरीं भोगमोक्षप्रदां शिवाम् ।
महामायां जगद्बीजां वन्दे त्वां जगदीश्वरीम् ॥ ७ ॥

शरणागतजीवानां सर्वदुःखविनाशिनीम् ।
सुखसम्पत्करां नित्यां वन्दे त्वां प्रकृतिं पराम् ॥ ८ ॥

शरणागतजीवानां सर्वदुःखविनाशिनीम् ।
सुखसम्पत्करां नित्यां वन्दे त्वां प्रकृतिं पराम् ॥ ९ ॥

देव्यष्टकमिदं पुण्यं योगानन्देन निर्मितम् ।
यः पठेद्भक्तिभावेन लभते स परं सुखम् ॥ १० ॥

इति योगानन्दविरचितं श्रीदेव्यष्टकं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Devyashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Ashtabhujashtakam In Tamil