Dhundiraja Bhujanga Prayata Stotram In Sanskrit

॥ Dhundiraja Bhujanga Prayata Stotram Sanskrit Lyrics ॥

॥ श्री ढुण्ढिराज भुजङ्ग प्रयात स्तोत्रम् ॥
उमाङ्गोद्भवं दन्तिवक्त्रं गणेशं
भुजाकङ्कणैः शोभिनं धूम्रकेतुम् ।
गले हारमुक्तावलीशोभितं तं
नमो ज्ञानरूपं गणेशं नमस्ते ॥ १ ॥

गणेशं वदेत्तं स्मरेत् सर्वकार्ये
स्मरन् सन्मुखं ज्ञानदं सर्वसिद्धिम् ।
मनश्चिन्तितं कार्यमेवेषु सिद्ध्ये-
-न्नमो बुद्धिकान्तं गणेशं नमस्ते ॥ २ ॥

महासुन्दरं वक्त्रचिह्नं विराटं
चतुर्धाभुजं चैकदन्तैकवर्णम् ।
इदं देवरूपं गणं सिद्धिनाथं
नमो भालचन्द्रं गणेशं नमस्ते ॥ ३ ॥

ससिन्दूरसत्कुङ्कुमैस्तुल्यवर्णः
स्तुतैर्मोदकैः प्रीयते विघ्नराजः ।
महासङ्कटच्छेदकं धूम्रकेतुं
नमो गौरिपुत्रं गणेशं नमस्ते ॥ ४ ॥

यथा पातकच्छेदकं विष्णुनाम
तथा ध्यायतां शङ्करं पापनाशः ।
यथा पूजिते षण्मुखे शोकनाशो
नमो विघ्ननाशं गणेशं नमस्ते ॥ ५ ॥

सदा सर्वदा ध्यायतामेकदन्तं
सुसिन्दूरकं पूजितं रक्तपुष्पैः ।
सदा चर्चितं चन्दनैः कुङ्कुमाक्तं
नमो ज्ञानरूपं गणेशं नमस्ते ॥ ६ ॥

नमो गौरिकागर्भजापत्य तुभ्यं
नमो ज्ञानरूपिन्नमः सिद्धिकान्त ।
नमो ध्येयपूज्याय हे बुद्धिनाथ
सुरास्त्वां भजन्ते गणेशं नमस्ते ॥ ७ ॥

भुजङ्गप्रयातं पठेद्यस्तु भक्त्या
प्रभाते जपेन्नित्यमेकाग्रचित्तः ।
क्षयं यान्ति विघ्ना दिशः शोभयन्तं
नमो ज्ञानरूपं गणेशं नमस्ते ॥ ८ ॥

See Also  Ganesha Saranam Saranam Ganesha In Tamil – கணேஷ சரணம் சரணம் கணேஷா

इति श्रीढुण्ढिराज भुजङ्ग प्रयात स्तोत्रम् ।

– Chant Stotra in Other Languages –

Sri Ganesha Stotram » Dhundiraja Bhujanga Prayata Stotram in Lyrics in English » Kannada » Telugu » Tamil