Ganeshashtakam 2 In Sanskrit

॥ Ganeshashtakam 2 Sanskrit Lyrics ॥

॥ गणेशाष्टकम् २ ॥
गणपति-परिवारं चारुकेयूरहारं
गिरिधरवरसारं योगिनीचक्रचारम् ।
भव-भय-परिहारदुःख-दारिद्र्य-दूरं-
गणपतिमभिवन्देवक्रतुण्डावतारम् ॥ १ ॥

अखिलमलविनाशम्पाणिनाहस्तपाशं-
कनकगिरिनिकाशंसूर्यकोटिप्रकाशम् ।
भजभवगिरिनाशमालतीतीरवासं-
गणपतिमभिवन्देमानसेराजहंसम् ॥ २ ॥

विविध-मणिमयूखैः शोभमानं विदूरैः-
कनक-रचित-चित्रङ्कण्ठदेशेविचित्रम् ।
दधति विमलहारं सर्वदा यत्नसारं
गणपतिमभिवन्दे वक्रतुण्डावतारम् ॥ ३ ॥

दुरितगजममन्दं वारुणीं चैव वेदं
विदितमखिलनादं नृत्यमानन्दकन्दं ।
दधतिशशिसुवक्त्रं चाङ्कुशंयोविशेषं
गणपतिमभिवन्दे सर्वदाऽऽनन्दकन्दम् ॥ ४ ॥

त्रिनयनयुतभालेशोभमाने विशाले-
मुकुट-मणि-सुढाले मौक्तिकानां च जाले ।
धवलकुसुममाले यस्य शीर्ष्णः सताले
गणपतिमभिवन्दे सर्वदा चक्रपाणिम् ॥ ५ ॥

वपुषि महति रूपं पीठमादौ सुदीपं
तदुपरि रसकोणं यस्य चोर्ध्वं त्रिकोणम् ।
गजमितदलपद्मं संस्थितं चारुछद्मं
गणपतिमभिवन्दे कल्पवृक्षस्य वृन्दे ॥ ६ ॥

वरदविशदशस्तं दक्षिणं यस्य हस्तं
सदयमभयदं तं चिन्तये चित्तसंस्थम् ।
शबलकुटिलशुण्डञ्चैकतुण्डं द्वितुण्डं
गणपतिमभिवन्दे सर्वदा वक्रतुण्डम् ॥ ७ ॥

कल्पद्रुमाधःस्थित-कामधेनुं चिन्तामणिं दक्षिणपाणिशुण्डम् ।
बिभ्राणमत्यद्भूतचित्तरूपं यः पूजयेत् तस्य समस्तसिद्धिः ॥ ८ ॥

व्यासाऽष्टकमिदं पुण्यं गणेशस्तवनं नृणाम् ।
पठतां दुःखनाशाय विद्यां संश्रियमश्नुते ॥ ९ ॥

इति श्रीपद्भपुराणे उत्तरखण्डे व्यासविरचितं गणेशाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Ganapathi Slokam » Ganeshashtakam 2 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Yamunashtakam 4 In Odia – River Yamunashtaka