Gangashtakam By Satya Jnanananda Tirtha In Sanskrit

॥ Satya Jnanananda Tirtha Gangashtakam Sanskrit Lyrics ॥

श्रीगणेशाय नमः ॥

यदवधि तव नीरं पातकी नैति गङ्गे
तदवधि मलजालैर्नैव मुक्तः कलौ स्यात् ।
तव जलकणिकाऽलं पापिनां पापशुद्धयै
पतितपरमदीनांस्त्वं हि पासि प्रपन्नान् ॥ १ ॥

तव शिवजललेशं वायुनीतं समेत्य
सपदि निरयजालं शून्यतामेति गङ्गे ।
शमलगिरिसमूहाः प्रस्फुण्टति प्रचण्डास्त्वयि
सखि विशतां नः पापशङ्का कुतः स्यात् ॥ २ ॥

तव शिवजलजालं निःसृतं यर्हि
गङ्गे सकलभुवनजालं पूतपूतं तदाऽभूत् ।
यमभटकलिवार्ता देवि लुप्ता यमोऽपि
व्यधिकृतवरदेहाः पूर्णकामाः सकामाः ॥ ३ ॥

मधुमधुवनपूगै रत्नपूगैर्नृपूगैर्-
मधुमधुवनपूगैर्देवपूगैः सपूगैः ।
पुरहरपरमाङ्गे भासि मायेव गङ्गे शमयसि
विषतापं देवदेवस्य वन्द्यम् ॥ ४ ॥

चलितशशिकुलाभैरुत्तरङ्गैस्तरङ्गैर्-
अमितनदनदीनामङ्गसङ्गैरसङ्गैः ।
विहरसि जगदण्डे खण्डंयती गिरीन्द्रान् रमयसि
निजकान्तं सागरं कान्तकाते ॥ ५ ॥

तव परमहिमानं चित्तवाचाममानं
हरिहरविधिशत्र्का नापि गङ्गे विदन्ति ।
श्रुतिकुलमभिधत्ते शङ्कितं तं गुणान्तं
गुणगणसुविलापैर्नेति नेतीति सत्यम् ॥ ६ ॥

तव नुतिनतिनामान्यप्यघं पावयन्ति ददति
परमशान्तिं दिव्यभोगान् जनानाम् ।
इति पतितशरण्ये त्वां प्रपन्नोऽस्मि
मातर्ललिततरतरङ्गे चाङ्ग गवेप्रसीद ॥ ७ ॥

शुभतरकृतयोगाद्विश्वनाथ-
प्रसादाद्भवहरवरविद्यां प्राप्य काश्यां हि गङ्गे ।
भगवति तव तीरे नीरसारं निपीय
मुदितहृदयकञ्जे नन्दसूनुं भजेऽहम् ॥ ८ ॥

See Also  Sri Bhairav Ashtakam 2 In English

गङ्गाष्टकमिदं कृत्वा भुक्तिमुक्तिप्रदं नृणाम् ।
सत्यज्ञानानन्दतीर्थयतिना स्वर्पितं शिवे ॥ ९ ॥

तेन प्रणातु भगवान् शिवो गङ्गाधरो विभुः ।
करोतु शङ्करः काश्यां जनानां सततं शिवम् ॥ १० ॥

इति सत्यज्ञानानन्दतीर्थयतिना विरचितं गङ्गाष्टकं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Gangashtakam by Satya Jnanananda Tirtha Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu  » Tamil