Janma Vaifalya Nirwan Ashtakam In Sanskrit

॥ Janma Vaifalya Nirwan Ashtakam Sanskrit Lyrics ॥

॥ जन्मवैफल्यनिरूपणाष्टकम् ॥
नाश्रितो वल्लभाधीशो न च दृष्टा सुबोधिनी ।
नाराधि राधिकानाथो वृथा तज्जन्म भूतले ॥ १ ॥

न गृहीतं हरेर्नाम नात्माद्यखिलमर्पितम् ।
न कृष्णसेवा विहिता वृथातज्जन्म भूतले ॥ २ ॥

न लीलाचिन्तनं नैव दीनता विरहात् हरेः ।
ल वा कृष्णाश्रयः पूर्णो वृथा तज्जन्म भूतले ॥ ३ ॥

न नीता वार्तया घस्राः साधवो नैव सेविताः ।
न गोविन्दगुणा गीता वृथा तज्जन्म भूतले ॥ ४ ॥

न कृष्णरूपसौन्दर्यमनो नैव विरागिता ।
न दुःसङ्गपरित्यागो वृथा तज्जन्म भूतले ॥ ५ ॥

न भक्तिः पुष्टिमार्गीया न निःसाधनता हृदि ।
न विस्मृतिः प्रपञ्चस्य वृथा तज्जन्म भूतले ॥ ६ ॥

न धर्मपरता नैव धर्ममार्गे मनोगतिः ।
न भक्तिर्ज्ञानवैराग्ये वृथा तज्जन्म भूतले ॥ ७ ॥

न निजस्वामिविरहपरितापो न भावना ।
न दैन्यं परमं यस्य वृथा तज्जन्म भृतले ॥ ८ ॥

इति श्रीहरिरायवर्यविरचितं जन्मवैफल्यनिरूपणाष्टकम् ॥

– Chant Stotra in Other Languages –

Janma Vaifalya Nirwan Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Matripadapankaj Ashtakam In Telugu