Kunjabihari Ashtakam 2 In Sanskrit

॥ Kunjabihari Ashtakam 2 Sanskrit Lyrics ॥

द्वितीयं श्रीकुञ्जविहार्यष्टकं
नमः कुञ्जविहारिणे ।
अविरतरतिबन्धुस्मेरताबन्धुरश्रीः
कबलित इव राधापाङ्गभङ्गीतरङ्गैः ।
मुदितवदनचन्द्रश्चन्द्रिकापीतधारी
मुदिरमधुरकान्तिर्भाति कुञ्जे विहारी ॥ १ ॥

ततसुषिरघनानां नादमानद्धभाजां
जनयति तरुणीनां मण्डले मण्डितानाम् ।
तटभुवि नटराजक्रीडया भानुपुत्र्याः
विदधदतुलचारिर्भाति कुञ्जे विहारी ॥ २ ॥

शिखिनिगलितषड्जेकोकिले पञ्चमाढ्ये
स्वयमपि नववंश्योद्दामयन् ग्राममुख्यम् ।
धृतमृगमदगन्धः सुष्ठुगान्धारसंज्ञं
त्रिभुवनधृतिहारिर्भाति कुञ्जे विहारी ॥ ३ ॥

अनुपमकरशाखोपात्तराधाङ्गुलीको
लघु लघु कुसुमानां पर्यटन् वाटिकायाम् ।
सरभसमनुगीतश्चित्रकण्ठीभिरुच्चैः
व्रजनवयुवतीभिर्भाति कुञ्जे विहारी ॥ ४ ॥

अहिरिपुकृतलास्ये कीचकारब्धवाद्ये
व्रजगिरितटरङ्गे भृङ्गसङ्गीतभाजि ।
विरचितपरिचर्यश्चित्रतौर्यत्रिकोण-
स्तिमितकरणवृत्तिर्भाति कुञ्जे विहारी ॥ ५ ॥

दिशि दिशि शुकशारीमण्डलैर्गूढलीलाः
प्रकटमनुपठद्भिर्निर्मिताश्चर्यपूरः ।
तदतिरहसि वृत्तं प्रेयसीकर्णमूले
स्मितमुखमभिजल्पन् भाति कुञ्जे विहारी ॥ ६ ॥

तव चिकुरकदम्बं स्तम्भते प्रेक्ष्य केकी
नयनकमललक्ष्मीर्वन्दते कृष्णसारः ।
अलिरलमलकान्तं नौति पश्येति राधां
सुमधुरमभिशंसन् भाति कुञ्जे विहारी ॥ ७ ॥

मदनतरलबाला चक्रवालेन विष्वग्-
विविधवरकलानां शिक्षया सेव्यमानः ।
स्खलितचिकुरवेशे स्कन्धदेशे प्रियायाः
प्रथितपृथुलबाहुर्भाति कुञ्जे विहारी ॥ ८ ॥

इदमनुपमलीलाहारि कुञ्जविहारी
स्मरणपदमधीते तुष्टधीरष्टकं यः ।
निजगुणवृतया श्रीराधयाराधिऽऽराधितस्तं
नयति निजपदाब्जं कुञ्जसद्माधिराजः ॥ ९ ॥

इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीकुञ्जविहार्यष्टकं
द्वितीयं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Kunjabihari Ashtakam 2 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  108 Names Of Ayyappa Swamy In Sanskrit