Mahaprabhora Ashtakam In Sanskrit

॥ Mahaprabhora Ashtakam Sanskrit Lyrics ॥

॥ महाप्रभोराष्टकम् ॥
स्वरूप भवतो भवत्वयमिति स्मितस्निग्धया
गिरैव रघुनाथमुत्पुलिकगात्रमुल्लासयन् ।
रहस्युपदिशन् निजप्रणयगूढमुद्रां स्वयं
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ १ ॥

स्वरूप मम हृद्व्रणं बत विवेद रूपः कथं
लिलेख यदयं पठ त्वमपि तालपत्रेऽक्षरम् ।
इति प्रणयवेल्लितं विदधदाशु रूपान्तरं
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ २ ॥

स्वरूप परकीयसत्प्रवरवस्तुनाशेच्छतां
दधज्जन इह त्वया परिचितो न वेतीक्षयन् ।
सनातनमुदित्य विस्मितमुखं महाविस्मितं
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ३ ॥

स्वरूप हरिनाम यज्जगदघोषयं तेन किं
न वाचयितुमप्यथाशकमिमं शिवानन्दजम् ।
इति स्वपदलेहनैः शिशुमचीकरद् यः कविं
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ४ ॥

स्वरूप रसरीतिरम्बुजदृशाम् व्रजे भण्यतां
घनप्रणयमानजा श्रुतियुगं ममोत्कण्ठते ।
रमा यदिह मानिनी तदपि लोकयेति ब्रुवन्
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ५ ॥

स्वरूप रसमन्दिरं भवसि मन्मुदामास्पदं
त्वमत्र पुरुषोत्तमे व्रजभुवीव मे वर्तसे ।
इति स्वपरिरम्भणैः पुलकिनं व्यधात् तं च यो
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ६ ॥

See Also  Sri Veda Vyasa Ashtakam In Sanskrit

स्वरूप किमपीक्षितं क्व नु विभो निशि स्वप्नतः
प्रभो कथय किम् नु तम् नवयुवा वराम्भोधरः ।
व्यधात् किमयमीक्ष्यते किमु न हीत्यगात् तां दशां
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ७ ॥

स्वरूप मम नेत्रयोः पुरत एव कृष्णो हसन्न्
अपैति न करग्रहं बत ददाति हा किं सखे ।
इति स्खलति धावति श्वसिति घूर्णते यः सदा
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ८ ॥

स्वरूपचरितामृतं किल महाप्रभोरष्टकं
रहस्यतममद्भुतं पठति यः कृती प्रत्यहम् ।
स्वरूपपरिवारतां नयति तआ शचीनन्दनो
घनप्रणयमाधुरीं स्वपदयोः समास्वादयन् ॥ ९ ॥

इति श्रीविश्वनाथचक्रवर्तीठाकुरविरचितं महाप्रभोराष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Mahaprabhora Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil