॥ Nahusha Geetaa Sanskrit Lyrics ॥
॥ नहुषगीता ॥
॥ अथ नहुषगीता ॥
अध्याय १७७
वैशम्पायन उवाच ।
युधिष्ठिरस्तमासाद्य सर्पभोगेन वेष्टितम् ।
दयितं भ्रातरं वीरमिदं वचनमब्रवीत् ॥ १ ॥
कुन्तीमातः कथमिमामापदं त्वमवाप्तवान् ।
कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः ॥ २ ॥
स धर्मराजमालक्ष्य भ्राता भ्रातरमग्रजम् ।
कथयामास तत्सर्वं ग्रहणादि विचेष्टितम् ॥ ३ ॥
युधिष्ठिर उवाच ।
देवो वा यदि वा दैत्य उरगो वा भवान्यदि ।
सत्यं सर्पो वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः ॥ ४ ॥
किमाहृत्य विदित्वा वा प्रीतिस्ते स्याद्भुजङ्गम ।
किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम् ॥ ५ ॥
सर्प उवाच ।
नहुषो नाम राजाऽहमासं पूर्वस्तवानघ ।
प्रथितः पञ्चमः सोमादायोःपुत्रो नराधिप ॥ ६ ॥
क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन च ।
त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तो विक्रमणेन च ॥ ७ ॥
तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा ।
सहस्रं हि द्विजातीनामुवाह शिबिकां मम ॥ ८ ॥
ऐश्वर्यमदमत्तोऽहमवमन्य ततो द्विजान् ।
इमामगस्त्येन दशामानीतः पृथिवीपते ॥ ९ ॥
न तु मामजहात्प्रज्ञा यावदद्येति पाण्डव ।
तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः ॥ १० ॥
षष्ठे काले ममाहारः प्राप्तोऽयमनुजस्तव ।
नाहमेनं विमोक्ष्यामि न चान्यमभिकामये ॥ ११ ॥
प्रश्नानुच्चारितांस्तु त्वं व्याहरिष्यसि चेन्मम ।
अथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम् ॥ १२ ॥
युधिष्ठिर उवाच ।
ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः ।
अपि चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजङ्गम ॥ १३ ॥
वेद्यं यद्ब्राह्मणेनेह तद्भवान्वेत्ति केवलम् ।
सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः ॥ १४ ॥
सर्प उवाच ।
ब्राह्मणः को भवेद्राजन्वेद्यं किं च युधिष्ठिर ।
ब्रवीह्यतिमतिं त्वां हि वाक्यैरनुमिमीमहे ॥ १५ ॥
युधिष्ठिर उवाच ।
सत्यं दानं क्षमा शीलमानृशंस्यं दमो घृणा ।
दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः ॥ १६ ॥
वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत् ।
यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम् ॥ १७ ॥
सर्प उवाच ।
चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव हि ।
शूद्रेष्वपि च सत्यं च दानमक्रोध एव च ।
आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर ॥ १८ ॥
वेद्यं यच्चाथ निर्दुःखमसुखं च नराधिप ।
ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये ॥ १९ ॥
युधिष्ठिर उवाच ।
शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते ।
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः ॥ २० ॥
यत्रैतल्लक्ष्यतेसर्प वृत्तं स ब्राह्मणः स्मृतः ।
यत्रैतन्न भवेत्सर्प तं शूद्रमिति निर्दिशेत् ॥ २१ ॥
यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति ह ।
ताभ्यां हीनमतीत्यात्र पदं नास्तीति चेदपि ॥ २२ ॥
एवमेतन्मतं सर्प ताभ्यां हीनं न विद्यते ।
यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता ॥ २३ ॥
एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्व चित् ।
एषा मम मतिः सर्प यथा वा मन्यते भवान् ॥ २४ ॥
सर्प उवाच ।
यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः ।
व्यर्था जातिस्तदाऽऽयुष्मन्कृतिर्यावन्न दृश्यते ॥ २५ ॥
युधिष्ठिर उवाच ।
जातिरत्र महासर्प मनुष्यत्वे महामते ।
सङ्करात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः ॥ २६ ॥
सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः ।
वाङ्मैथुनमथो जन्म मरणं च समं नृणाम् ॥ २७ ॥
इदमार्षं प्रमाणं च ये यजामह इत्यपि ।
तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः ॥ २८ ॥
प्राङ्नाभिर्वर्धनात्पुंसो जातकर्म विधीयते ।
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ २९ ॥
वृत्त्या शूद्र समो ह्येष यावद्वेदे न जायते ।
अस्मिन्नेवं मतिद्वैधे मनुः स्वायम्भुवोऽब्रवीत् ॥ ३० ॥
कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते ।
सङ्करस्तत्र नागेन्द्र बलवान्प्रसमीक्षितः ॥ ३१ ॥
यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते ।
तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम ॥ ३२ ॥
सर्प उवाच ।
श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर ।
भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम् ॥ ३३ ॥
अध्याय १७८
युधिष्ठिर उवाच ।
भवानेतादृशो लोके वेदवेदाङ्गपारगः ।
ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा ॥ १ ॥
सर्प उवाच ।
पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत ।
अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम ॥ २ ॥
युधिष्ठिर उवाच ।
दानाद्वासर्पोवाच ।सत्याद्वा किमतो गुरु दृश्यते ।
अहिंसा प्रिययोश्चैव गुरुलाघवमुच्यताम् ॥ ३ ॥
सर्पोवाच ।
दाने रतत्वं सत्यं च अहिंसा प्रियमेव च ।
एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम् ॥ ४ ॥
कस्माच्चिद्दानयोगाद्धि सत्यमेव विशिष्यते ।
सत्यवाक्याच्च राजेन्द्र किंचिद्दानं विशिष्यते ॥ ५ ॥
एवमेव महेष्वास प्रियवाक्यान्महीपते ।
अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते ॥ ६ ॥
एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम् ।
यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम् ॥ ७ ॥
युधिष्ठिर उवाच ।
कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम् ।
अशरीरस्य दृश्येत विषयांश्च ब्रवीहि मे ॥ ८ ॥
सर्प उवाच ।
तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः ।
मानुष्यं स्वर्गवासश्च तिर्यग्योनिश्च तत्त्रिधा ॥ ९ ॥
तत्र वै मानुषाल्लोकाद्दानादिभिरतन्द्रितः ।
अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते ॥ १० ॥
विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत् ।
तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते ॥ ११ ॥
कामक्रोधसमायुक्तो हिंसा लोभसमन्वितः ।
मनुष्यत्वात्परिभ्रष्टस्तिर्यग्योनौ प्रसूयते ॥ १२ ॥
तिर्यग्योन्यां पृथग्भावो मनुष्यत्वे विधीयते ।
गवादिभ्यस्तथाऽश्वेभ्यो देवत्वमपि दृश्यते ॥ १३ ॥
सोऽयमेता गतीः सर्वा जन्तुश्चरति कार्यवान् ।
नित्ये महति चात्मानमवस्थापयते नृप ॥ १४ ॥
जातो जातश्च बलवान्भुङ्क्ते चात्मा स देहवान् ।
फलार्थस्तात निष्पृक्तः प्रजा लक्षणभावनः ॥ १५ ॥
युधिष्ठिर उवाच ।
शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः ।
तस्याधिष्ठानमव्यग्रो ब्रूहि सर्प यथातथम् ॥ १६ ॥
किं न गृह्णासि विषयान्युगपत्त्वं महामते ।
एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम ॥ १७ ॥
सर्प उवाच ।
यदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम् ।
करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि ॥ १८ ॥
ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ ।
तस्य भोगाधिकरणे करणानि निबोध मे ॥ १९ ॥
मनसा तात पर्येति क्रमशो विषयानिमान् ।
विषयायतनस्थेन भूतात्मा क्षेत्रनिःसृतः ॥ २० ॥
अत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते ।
तस्माद्युगपदस्यात्र ग्रहणं नोपपद्यते ॥ २१ ॥
स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः ।
द्रव्येषु सृजते बुद्धिं विविधेषु परावराम् ॥ २२ ॥
बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः ।
एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः ॥ २३ ॥
युधिष्ठिर उवाच ।
मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम् ।
एतदध्यात्मविदुषां परं कार्यं विधीयते ॥ २४ ॥
सर्प उवाच ।
बुद्धिरात्मानुगा तात उत्पातेन विधीयते ।
तदाश्रिता हि सञ्ज्ञैषा विधिस्तस्यैषिणी भवेत् ॥ २५ ॥
बुद्धेर्गुणविधिर्नास्ति मनस्तु गुणवद्भवेत् ।
बुद्धिरुत्पद्यते कार्ये मनस्तूत्पन्नमेव हि ॥ २६ ॥
एतद्विशेषणं तात मनो बुद्ध्योर्मयेरितम् ।
त्वमप्यत्राभिसम्बुद्धः कथं वा मन्यते भवान् ॥ २७ ॥
युधिष्ठिर उवाच ।
अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव ।
विदितं वेदितव्यं ते कस्मान्मामनुपृच्छसि ॥ २८ ॥
सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम् ।
एवमद्भुतकर्माणमिति मे संशयो महान् ॥ २९ ॥
सर्प उवाच ।
सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम् ।
वर्तमानः सुखे सर्वो नावैतीति मतिर्मम ॥ ३० ॥
सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर ।
पतितः प्रतिसम्बुद्धस्त्वां तु सम्बोधयाम्यहम् ॥ ३१ ॥
कृतं कार्यं महाराज त्वया मम परन्तप ।
क्षीणः शापः सुकृच्छ्रो मे त्वया सम्भाष्य साधुना ॥ ३२ ॥
अहं हि दिवि दिव्येन विमानेन चरन्पुरा ।
अभिमानेन मत्तः सन्कं चिन्नान्यमचिन्तयम् ॥ ३३ ॥
ब्रह्मर्षिदेवगन्धर्वयक्षराक्षस किंनराः ।
करान्मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः ॥ ३४ ॥
चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते ।
तस्य तेजो हराम्याशु तद्धि दृष्टिबलं मम ॥ ३५ ॥
ब्रह्मर्षीणां सहस्रं हि उवाह शिबिकां मम ।
स मामपनयो राजन्भ्रंशयामास वै श्रियः ॥ ३६ ॥
तत्र ह्यगस्त्यः पादेन वहन्पृष्टो मया मुनिः ।
अदृष्टेन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा ॥ ३७ ॥
ततस्तस्माद्विमानाग्रात्प्रच्युतश्च्युत भूषणः ।
प्रपतन्बुबुधेऽऽत्मानं व्याली भूतमधोमुखम् ॥ ३८ ॥
अयाचं तमहं विप्रं शापस्यान्तो भवेदिति ।
अज्ञानात्सम्प्रवृत्तस्य भगवन्क्षन्तुमर्हसि ॥ ३९ ॥
ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः ।
युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति ॥ ४० ॥
अभिमानस्य घोरस्य बलस्य च नराधिप ।
फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि ॥ ४१ ॥
ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम् ।
ब्रह्म च ब्राह्मणत्वं च येन त्वाहमचूचुदम् ॥ ४२ ॥
सत्यं दमस्तपोयोगमहिंसा दाननित्यता ।
साधकानि सदा पुंसां न जातिर्न कुलं नृप ॥ ४३ ॥
अरिष्ट एष ते भ्राता भीमो मुक्तो महाभुजः ।
स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः ॥ ४४ ॥
वैशम्पायन उवाच ।
इत्युक्त्वाऽऽजगरं देहं त्यक्त्वा स नहुषो नृपः ।
दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह ॥ ४५ ॥
युधिष्ठिरोऽपि धर्मात्मा भ्रात्रा भीमेन सङ्गतः ।
धौम्येन सहितः श्रीमानाश्रमं पुनरभ्यगात् ॥ ४६ ॥
ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम् ।
कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः ॥ ४७ ॥
तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः ।
आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी ॥ ४८ ॥
ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया ।
मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस्य साहसम् ॥ ४९ ॥
पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य भीमं महाबलम् ।
हर्षमाहारयां चक्रुर्विजह्रुश्च मुदा युताः ॥ ५० ॥
॥ इति नहुषगीता समाप्ता ॥
– Chant Stotra in Other Languages –
Nahusha Gita in Sanskrit – English – Bengali – Gujarati – Kannada – Malayalam – Odia – Telugu – Tamil