Prithvi Dhara Rajaputra Ashtakam In Sanskrit

॥ Prithvi Dhara Rajaputra Ashtakam Sanskrit Lyrics ॥

॥ पृथ्वीधरराजपुत्र्यष्टकम् ॥
ज्ञात्वापि दोषान्विषयेषु शब्दरसादिमेष्वप्रतिबद्धतर्षम् ।
आकारमात्रात्परहंसरूपं मां पाहि पृथ्वीधरराजपुत्रि ॥ १ ॥

विवेकवैराग्यशमादिषट्कमुमुक्षुतागन्धलवानभिज्ञम् ।
नक्तन्दिवं स्वोदरपूरणेच्छुं मां पाहि पुथ्वीधरराजपुत्रि ॥ २ ॥

काषायवस्त्रेण करात्तदण्डकमण्डलुभ्यां जपमालया च ।
विभ्रामयन्तं गृहिणां कदम्बं मां पाहि पृथ्वीधरराजपुत्रि ॥ ३ ॥

वेदान्तवाक्यानि मुधोच्चरन्तं तदर्थजातं बहु वर्णयन्तम् ।
कदापि न ध्यातपरात्मतत्त्वं मां पाहि पृथ्वीधरराजपुत्रि ॥ ४ ॥

सुवर्णतन्तूज्ज्वलचेलकामं यानेषु मानेषु विवृद्धरागम् ।
अङ्गीकृतानेकसुमित्रशत्रुं मां पाहि पृथ्वीधरराजपुत्रि ॥ ५ ॥

भोगा अनेका मनसाप्यलभ्या भूयासुरित्यन्वहमीहमानम् ।
गुरूत्तमाराधनदूरचित्तं मां पाहि पृथ्वीधरराजपुत्रि ॥ ६ ॥

कुतो यतेरस्य शरीरमानधनाभिमानः सततं दुरन्तः ।
अशेषलोकैरिति निन्द्यमानं मां पाहि पुथ्वीधरराजपुत्रि ॥ ७ ॥

निवारिताशेषमहाघवृन्दैरव्याजकारुण्यसुधातरङ्गैः ।
अपाङ्गपातैरवलोकयन्ती मां पाहि पूरथ्वीधरराजपुत्रि ॥ ८ ॥

इदं हि पृथ्वीधरराजपुत्रीपादारविन्दार्पितमानसेन ।
कर्मन्दिना निर्मितमष्टकं यः पठेत्स भूयादखिलेष्टगेहम् ॥ ९ ॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीपृथ्वीधरराजपुत्र्यष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Prithvi Dhara Rajaputra Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Shri Raghavendra Swamy Ashtakam In Bengali