Punyodaya Prashasti Ashtakam In Sanskrit

॥ Punyodaya Prashasti Ashtakam Sanskrit Lyrics ॥

॥ पुण्योदयप्रशस्त्यष्टकम् ॥
पुण्यमूर्तिः पुण्यचेताः पुण्यधीः पुण्यवाङ्महाः ।
पुण्यकर्मा पुण्यशर्मा श्रीपुण्यविजयो मुनिः ॥ १ ॥

निसर्गवत्सलो धीरो विशालहृदयस्तथा ।
परोपकारप्रवणो नम्नसौम्यस्वभावभाक् ॥ २ ॥

उदात्तचिन्तनो दीप्रप्रज्ञो वाचंयमस्तथा ।
निर्भीकः सत्यसामर्थ्यप्रभाप्रसृमरोदयः ॥ ३ ॥

जैन-वैदिक-बौद्धानां शास्त्रेषु सुविशारदः ।
सम्माननीयो विदुषां विद्यासंस्थेव जङ्गमा ॥ ४ ॥

यदीयो व्यवसायश्च मुख्यरूपेण वर्तते ।
श्रेष्ठपद्धतितः प्राच्यशास्त्राणां परिशोधनम् ॥ ५ ॥

बहुप्राचीनशास्त्राढ्यभाण्डागारावलोकनम् ।
कृत्वा श्रमेण योऽकार्षीत् तेषामुद्धारमुत्तमम् ॥ ६ ॥

महामेधाविना येन प्राचीना बहुगौरवाः ।
ग्रन्थाः सम्पादिताः सन्ति विद्वदान्दकारिणः ॥ ७ ॥

विद्यासङ्गपरायणो मुनिपदालङ्कारभूतक्रियः
श्रेष्ठाचारविचारपूतविकसद्वैदुष्यनिष्पादितम् ।
भव्यश्लोकमनल्पधाममहिमा विभ्रन्महासात्त्विको
जीयाद् विश्वजनाय पुण्यविजयः पुण्यप्रकाशं दिशन् ॥ ८ ॥

इति मुनि न्यायविजयविरचितं पुण्योदयप्रशस्त्यष्टकम् समाप्तम् ।

– Chant Stotra in Other Languages –

Punyodaya Prashasti Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Jina Suprabhat Ashtakam In Sanskrit