Ramapatya Ashtakam In Sanskrit

॥ Ramapatya Ashtakam Sanskrit Lyrics ॥

॥ रमापत्यष्टकम् ॥

श्रीगणेशाय नमः ॥

जगदादिमनादिमजं पुरुषं शरदम्बरतुल्यतनुं वितनुम् ।
धृतकञ्जरथाङ्गगदं विगदं प्रणमामि रमाधिपतिं तमहम् ॥ १ ॥

कमलाननकञ्जरतं विरतं हृदि योगिजनैः कलितं ललितम् ।
कुजनैः सुजनैरलभं सुलभं प्रणमामि रमाधिपतिं तमहम् ॥ २ ॥

मुनिवृन्दहृदिस्थपदं सुपदं निखिलाध्वरभागभुजं सुभुजम् ।
हृतवासवमुख्यमदं विमदं प्रणमामि रमाधिपतिं तमहम् ॥ ३ ॥

हृतदानवदृप्तबलं सुबलं स्वजनास्तसमस्तमलं विमलम् ।
समपास्त गजेन्द्रदरं सुदरं प्रणमामि रमाधिपतिं तमहम् ॥ ४ ॥

परिकल्पितसर्वकलं विकलं सकलागमगीतगुणं विगुणम् ।
भवपाशनिराकरणं शरणं प्रणमामि रमाधिपतिं तमहम् ॥ ५ ॥

मृतिजन्मजराशमनं कमनं शरणागतभीतिहरं दहरम् ।
परितुष्टरमाहृदयं सुदयं प्रणमामि रमाधिपतिं तमहम् ॥ ६ ॥

सकलावनिबिम्बधरं स्वधरं परिपूरितसर्वदिशं सुदृशम् ।
गतशोकमशोककरं सुकरं प्रणमामि रमाधिपतिं तमहम् ॥ ७ ॥

मथितार्णवराजरसं सरसं ग्रथिताखिललोकहृदं सुहृदम् ।
प्रथिताद्भुतशक्तिगणं सुगणं प्रणमामि रमाधिपतिं तमहम् ॥ ८ ॥

सुखराशिकरं भवबन्धहरं परमाष्टकमेतदनन्यमतिः ।
पठतीह तु योऽनिशमेव नरो लभते खलु विष्णुपदं स परम् ॥ ९ ॥

इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीरमापत्यष्टकं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Sri Rama Astakam » Ramapati Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Anjaneya Dvadasa Nama Stotram In Sanskrit