Sadguru Tyagaraja Ashtakam In Sanskrit

॥ Sadguru Sri Tyagaraja Ashtakam Sanskrit Lyrics ॥

॥ सद्गुरुश्रीत्यागराजाष्टकम् ॥

श्रीरामजयम् ।
श्रीः
ॐ सद्गुरुश्रीत्यागराजस्वमिने नमो नमः ।

त्यागराजाय विद्महे । नादहिम्याय धीमहि ।
तन्नस्सद्गुरुः प्रचोदयात् ॥

अथ सद्गुरुश्रीत्यागराजाष्टकम् ।
सद्गुरुत्यागराजाय हिमशैलस्मृताय च ।
शैलोत्तुङ्गसुगुण्याय महात्मने नमो नमः ॥ १ ॥

नामगङ्गासुधाराय ज्ञानहिम्याचलाय च ।
प्राणसंस्फूर्तिकाराय पावनाय नमो नमः ॥ २ ॥

हिमगद्यप्रचोदाय गङ्गास्तोत्रप्रभूतये ।
गद्यपद्यप्रमोदाय गुरुदेवाय ते नमः ॥ ३ ॥

ध्यानगङ्गानिमग्नाय गानगङ्गाप्रसारिणे ।
ज्ञानगङ्गाप्रभावाय नमो मत्प्राणशक्तये ॥ ४ ॥

नारायणाप्तकामाय नागशायिसुगायिने ।
नादमण्डलवृत्ताय नादसद्गुरवे नमः ॥ ५ ॥

सप्तस्वराधिवासाय सद्गङ्गासदनाय च ।
सीतारामाभिरामाय सद्गुरुस्वामिने नमः ॥ ६ ॥

सत्यवाक्सत्यरूपाय सत्त्वातीतैकशक्तये ।
सत्यश्रीरामनिष्ठाय त्यागराजाय ते नमः ॥ ७ ॥

नमो मद्गुरुदेवाय नमो मङ्गलमूर्तये ।
नमो नादावताराय पुष्पार्चिताय ते नमः ॥ ८ ॥

ॐ तत्सदिति सद्गुरुश्रीत्यागब्रह्मचरणयुगले समर्पितं
सद्गुरुश्रीत्यागराजाष्टकं सम्पूर्णम् ।

ॐ शुभमस्तु

– Chant Stotra in Other Languages –

Tyagaraja Slokam » Sadguru Sri Tyagaraja Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Rudram – Namakam In Sanskrit