Sanvichchatakam In Sanskrit

॥ Sanvichchatakam Sanskrit Lyrics ॥

॥ संविच्छतकम् ॥

॥ अथ त्यागराजविरचितम् संविच्छतकम् ॥

यस्या नित्यं चरणकमलद्वन्द्वमैश्चर्यबीजं
प्रध्यायन्तो हृदयकमले पुण्यभाजो मुनीन्द्राः ।
निर्द्वन्द्वं तत् समरसमहो प्राप्य तिष्ठन्ति तस्मिन्
तस्यै देव्यै तपनरुचये तत्त्वतोऽस्तु प्रणामः ॥ १ ॥

या कल्याणगुणप्रसूः परशिवानन्दामृतस्यन्दिनी
भूमानन्दमयी परापरमयी तेजोमयी वाङ्ग्मयी ।
आद्यान्तार्णतनूः शिवादिवसुधान्तान्तःप्रकाशात्मिका
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २ ॥

यस्यां प्रोतमिदं चतुर्दशजगत् सूत्रे मणिस्तोमवद्
यस्यां भाति जडं जडेतरमिदं स्तम्भादिवद् दारुणि ।
यस्यां पश्यति विश्वमज्ञहृदयाः स्थाणौ पुमांसं यथा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३ ॥

मूलौड्याणगलोपरोधनमहामुद्राप्रसन्ना परा
तेजःपुञ्जमयी सदा गतियुता हंसी सहस्रारकम् ।
अम्भोजं परहंसकेलिसदनं या प्राप्य लेभे मुदं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४ ॥

प्राणापानरवीन्दुयोगपरमानन्दप्रबुद्धा सती
संसुप्ता श्रुतिपत्रपद्मशयने सौषुम्नवीथ्याद्युतम् ।
वर्षत्यसभानटं समरसानन्दामृतं प्राप्य या
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५ ॥

या मित्रावरुणालयात् समुदिता तेजोमयी वल्लरी
वीणादण्डतरुश्रिता शिववियद्यान्ती स्वभावात् सदा ।
नानावर्णपदादिपुष्पनिचयान् स्वस्मिन् किरन्तीच्छया
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६ ॥

या चैकोत्तरखादिपञ्चकगुणाकारार्णमन्त्रात्मिका
या पीतारुणशुभ्रविग्रहमयी संध्यात्रये राजते ।
याप्येकाक्षरनादसंततिसुखोद्बोधैकमूर्तिः परा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७ ॥

याव्यक्ता नववारनाथकरुणापाङ्गा प्रकाशात्मिका
नीलेन्दीवरपद्महर्षकरदृक्तत्त्वार्णमुक्तावलिः ।
कामेश्यादिसुधांशुषोडशकलापूर्णात्मवक्त्राम्बुजा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८ ॥

या सीमा नवखण्डचक्रवसुधालंकारमेरोः परा
नानादेशिकयोगिनीमणिलसच्छुभ्रादिवर्णावनेः ।
कामेशाङ्कनिरभ्रनिर्मलमहाकाशस्थविद्युल्लता
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९ ॥

यस्याः प्रीतिरहर्निशं कुलगिरिस्रोतःसुधायां परा
निष्कामप्रणतान्तरङ्गकुसुमे ह्रींकारघण्टाध्वनौ ।
गन्धेऽहं शिव एव नान्य इति यो दीपे विमर्शात्मके
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ १० ॥

या चित्रं त्रिपुरा पुरान्तकसमाश्लिष्टा परा ज्योतिषाम्
अद्वैतापि शिवार्धर्मूर्तिरमला पाशापहा पाशिनी ।
पद्माराध्यपदारविन्दयुगला भिक्षाटनेशप्रिया
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ११ ॥

या दूरा ललितापि दुष्कृतजुषां या कोमलाङ्ग्यद्रिजा
या नीलाम्बुदमेचकापि भुवनं विद्योतयत्यद्भुतम् ।
या कल्याणगुणप्रवाहसुमहावारांनिधिर्निर्गुणा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ १२ ॥

निष्क्रोधा नतलोकमृत्युमथने या बद्धकच्छा सदा
निर्वैरा निजपूजनादिकृतिनां दैन्ये द्विषन्त्यद्भुतम् ।
भक्तानां भयमोचिनी भवरता श्रीकामराजात्मिका
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ १३ ॥

विद्यारण्यपुलिन्दिका श्रुतिगिरा तत्त्वोपदेष्ट्री सतां
वाराही नकुली विलासकुतुका याप्युत्तमब्राह्मणी ।
या चित्रं सुखशान्त्यतीतवसुधा श्रीचण्डिका शूलिनी
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ १४ ॥

या शाला निगमागमस्मृतिकलालीलाततेस्त्र्यक्षरी
या फालाक्षमहासती स्मरकलाहेला पराप्यद्भुतम् ।
या कालानलकान्तिमत्यपि सदा नीलालका शीतला
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ १५ ॥

कल्याणाचलकार्मुकस्य महिषी पुण्ड्रेक्षुचापाद्भुतं
लक्ष्मीवल्लभसायकस्य रमणी पुष्पेषुहस्ताम्बुजा ।
या रामा परमेश्वरस्य ललिता लोकत्रयेऽत्यद्भुतं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ १६ ॥

या वाचामधिदेवताप्यविषया वाचां श्रुतेर्वर्णितुं
श्रोत्रादीन्द्रियदेवतापि न जडैः श्रोत्रादिभिर्ज्ञायते ।
अन्तःस्थामपि यां प्रचोदकतया नो जानते जन्तवः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ १७ ॥

या वीणा परमेश्वराङ्कनिलया ह्रींकारमन्त्री सदा
श्यामा कालसुमूर्च्छनादिकलनाहीनापि रागिण्यहो ।
नाथेनाहतनादविभ्रमवती स्थाणुं शिवं चाकरोत्
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ १८ ॥

या मोहान्धतमोऽपनोदनविधौ बोधात्मिका कौमुदी
संसारार्णवतारणे दृढतरा नौकेन्द्रचापप्रभा ।
दारिद्र्याद्रिविदारणे कनकरुग् दम्भोलिरिच्छात्मिका
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ १९ ॥

या तापत्रयजाड्यशोकशमने काचिन्नृणां स्वर्धुनी
या शान्त्यादिगुणप्रवालमनिसंवृद्धौ सुधाम्बोनिधिः ।
प्रत्यग्दृष्ट्यसिताब्जपोषणविधौ जाड्यापहा दीर्घिका
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २० ॥

शोकारण्यकुठारिका शुभफलोद्यानस्य या वापिका
पापक्ष्वेलसुपर्णकल्पघुटिका प्राज्ञाज्ञयोरम्बिका ।
आशोच्चाटनमूलिका विपणिका वागर्थवृद्धेः कवेः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २१ ॥

या वाञ्छापरिपूरणे सुरलता मोक्षेन्दिरा देवता
स्रष्ट्रादेः कुलदेवता सुचरिता विद्यासु सर्वोन्नता ।
नित्यानन्दरता सुकर्ममुदिता लोकत्रयाराधिता
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २२ ॥

सारासारपयोविवेचनविधौ हंसी परं तु त्विषा
श्यामा मोहतमोपनोदनविधौ हंसः सदा भासकः ।
प्रज्ञासौधविहारिनिस्तुलमहाज्योत्स्ना दिवापि ध्रुवा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २३ ॥

या चिन्तामणिरेव दोषशमने दाने परं त्वद्रिजा
वासन्ती पिकसुन्दरी श्रुतिसुखालापे स्वयं पञ्चमी ।
याने यौवनसिन्धुतीरकरिणी पद्माटवीरक्षिणी
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २४ ॥

या शंभोर्नयनोत्पलेन्दुवदना कंदर्पदूतीक्षणा
चेतश्चातकनीलनीरदकचाजीवातुसीमन्तिनी ।
श‍ृङ्गाराद्वयशान्तिपाठसुकृतश्रेयःफलाग्रयस्तनी
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २५ ॥

या त्र्यक्षस्य मनोरथः किमु तपःपाकः सुखं नैजकं
दक्षस्येव तपःफलं कुलधनं दैवं हिमाद्रेरपि ।
भाग्यं भक्तजनस्य देशिकदृशोः श्लाध्यं कवीनां गिरां
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २६ ॥

See Also  Hariharastotram In Gujarati – Hari Hara Stotram

सेतुर्दुःखमहोदधेर्मणिमयच्छाया विभोस्तत्तरोः
पान्थानां परमार्थिनां प्रतिपदं कारुण्यपाथःप्रपा ।
सत्यानन्दचिदन्नदानविलसच्छाला च कल्याणधीः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २७ ॥

या लोकत्रितयैकरत्नमजडं भान्विन्दुभाशीतलं
निर्दोषं गुणवर्जितं च निखिलैश्चर्यप्रदं देहिनाम् ।
चित्रं भिक्षुकसार्वभौमनिलयं लोकत्रये भासते
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २८ ॥

यापर्णाप्यनपायकल्पलतिका स्थाणुः पतिः कल्पको
यस्या भक्तफलप्रपूरणविधौ पुत्रो विशाखोऽद्भुतम् ।
इत्थं नित्यकुटुम्बिनी त्रिजगतां रक्षाकरी राजते
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ २९ ॥

या पुण्याश्रम एव शांकरतपःसिद्ध्यै महायोगिनां
निर्वैरो गजपञ्चवक्त्रगतिमध्यः शान्तिरङ्गस्थलम् ।
निर्द्वन्द्वस्तनचक्रवाकलसितः कोकारिचूडामणिः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३० ॥

या केदारममूल्यमानमभयं निष्पङ्कमाशास्पदं
श्रीकण्ठेतरभोगबन्धरहितं कल्पे कदाप्यद्भुतम् ।
प्रज्ञाशालिन एव दित्सति बत ज्ञानाङ्कुरं कस्यचित्
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३१ ॥

या चित्रं करिणी हिमाचलभवा ताम्रारविन्देक्षणा
कान्त्या भर्त्सयती वरं मरतकं पाशाङ्कुशोक्ष्वन्विता ।
पञ्चास्यप्रभुमञ्चकोपरि वसत्यानन्दपुर्यां मुदा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३२ ॥

एणाङ्कार्भकमात्मकुन्तलतमोरात्र्यामपि द्योतय-
त्याश्चर्यं यमिनां कटाक्षयमुनाकल्लोलमालां च या ।
नित्यं वक्त्रशशाङ्कमन्दहसितज्योत्स्नां कृपायां गुरोः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३३ ॥

या दृष्टिः श्रुतिमूलशीलनपरा नीलाञ्जनाद्रिश्रियं
स्वात्मस्मेरपयोदधौ सहभवं श्रीवल्लभं तन्वती ।
वात्सल्यान्नतलोकमोहितिमिरं चित्रं धुनीते च या
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३४ ॥

या कारुण्यकटाक्षनीलवनजद्वेष्यात्मजाम्भःस्वहो
मुग्धस्निग्धमृदुस्मितामरधुनीवीचीविलासाश्रिते ।
सुस्नातं निजपादपङ्कजरजःसिक्तं बत व्यातनोत्
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३५ ॥

श्रीकण्ठार्धशरीरिणी ध्रुवमपि श्रीकान्तसोदर्यहो
नारायण्यपि सर्वदा कुलनगोत्तंसात्मजात्यद्भुतम् ।
प्रालेयाचलकन्यकापि सकलाहंरूपिणी याद्भुतम्
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३६ ॥

आनङ्गस्मृतिसंप्रदायमखिलं स्वापाङ्गशिष्येण या
कामद्रोहिणमेव शिक्षयति हा लोकोत्तरात्यद्भुतम् ।
तेनैवात्मपदारविन्दरसपानोथं त्रिलोकेऽन्यथा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३७ ॥

बन्धूकस्तबकं रुचा परिहसत्यम्भोजमप्यद्भुतं
कर्णास्येक्षणपाणिना वनचरं मध्येन वक्षोरुहा ।
गत्या स्वादुगिरा सुधाकरकलोत्तंसैश्च नीलालकैः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३८ ॥

निःस्पन्दं निगमागमाद्यविषयं श्रोत्रादिहीनं परं
निःशब्दं तदहो पुमांसमकरोत् कामेश इत्याख्यया ।
या चित्रं निजदासमच्छहृदयं शक्त्या तनोत्यन्यथा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ३९ ॥

वागर्थेन यथा युतापि परमानन्दात्मना शूलिना
नित्यं या विहरत्यहो जनमनोगेहेषु मुग्धेषु हा ।
निर्भीता कुलटेव कर्म कुरुते सर्वेन्द्रियाणां सदा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४० ॥

नासामौक्तिकदैत्यदेशिकमहो मन्दस्मितैः पुष्णती
ताटङ्कद्युतिभिर्दिनेशशशिनौ देवौ तिरस्कुर्वती ।
मारारेर्गुहमेधिनी मनसिजं रक्षत्यपाङ्गोटजे
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४१ ॥

बन्धच्छेदविचक्षणा पशुजनस्तोमातिदूराद्भुतं
या रक्षत्यगराजशेखरसुताप्याम्नायसूत्रैर्दृढम् ।
बद्ध्वा देवपशून् सदा पशुपतेः संसर्गदोषेण हा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४२ ॥

धारा देशिकदिव्यदृष्टिमधुनो मारारिनेत्रामृतं
धारा दुर्मतदारुदारिपरशोस्तारावलिर्योगिनाम् ।
तीरं मन्त्रमहोदधेः कविगिरां पूरः सुखाम्भोनिधेः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४३ ॥

कामाक्षीति वदन्ति केचन बुधाः कामेश्वरीत्यद्भुतं
रामास्तोमशिरोमणीति मदनारातेर्दृशोः पारणा ।
सीमा भूमसुखस्य चिन्मयकला श‍ृङ्गारमूर्तिश्च या
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४४ ॥

मुग्धस्निग्धकटाक्षमित्रतनया यस्याः सदानन्दिनी
मन्दस्मेरपयोनिधिं निजपतिं संगम्य वाणीश्रियः ।
संसूय प्रददात्ययाचिततत्या भक्तेभ्य एवादरात्
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४५ ॥

औन्नत्यं मुहुरेति चित्रममरश्रेणीषु यद्योगतो
दक्षद्वेष्यपि भिक्षुकोऽपि विषमाक्षोऽप्युक्षयानोऽपि वा ।
अज्ञातान्वयसंभवोऽपि निगमातीतोऽपि लुब्धस्तथा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४६ ॥

या लोकैकसुमङ्गला स्मरकला नीलाम्बुदश्यामला
डोला शंकरलोचनद्वयशिशोर्मालाष्टसिद्धिश्रियाम् ।
कालातीतकला कलानिधिकलोत्तंसातुला निर्मला
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४७ ॥

अस्तं या नलिनेक्षणेन नयति क्षोभातपं योगिनां
स्वानन्दामृतचन्द्रिकां करुणया नित्यं तनोत्यद्भुतम् ।
वर्षत्याननपङ्कजे सुकवितापीयूषधाराः कवेः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४८ ॥

या विद्युत्कमलेषु तिष्ठति परा तापिञ्छगुच्छच्छवि-
श्चितं प्राणभृतां दृशोः सुखकरी भीमप्रकाशिन्यलम् ।
ज्योतिः शीतलभूभृतस्त्रिभुवनक्षेमप्रवाहप्रदा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ४९ ॥

या काचिद्धरिणी मरालगमना चिद्व्योमसंचारिणी
ह्रींकारस्वनसंततेः परवशा हृद्यानवद्या दृशाम् ।
अस्त्रैव्यार्धवरं पिनाकिनमहो संमोहयन्त्यन्वहं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५० ॥

धेनुर्या परमात्मनः पशुपतेः सर्वज्ञतादोहिनी
चित्रं षण्मुखवक्रतुण्डजननी प्रालेयशैलात्मजा ।
निर्निद्रामलपुण्डरीकनयना शुभ्रांशुचूडामणिः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५१ ॥

यां दण्डं वरविद्रुमात्मकमतिश्लक्षणं सुसूक्ष्मं ध्रुवं
गाढं निर्विषयाः पुराणपुरुषा आलम्ब्य गच्छन्त्यहो ।
तीर्त्वा दुस्तरजन्मपङ्कनिबिडं मायामहीमण्डलं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५२ ॥

See Also  Mahakala Shanimrityunjaya Stotram In Bengali

या कुम्भोद्भव एव मन्मथरिपोर्धैर्याम्बुधेः प्राशने
प्रारब्धात्मकविन्ध्यभूधरगतिध्वंसे तथा धीमताम् ।
आचार्यः शिवबोधने निजपतेरानङ्गदीक्षाक्रमे
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५३ ॥

या क्षीराब्धिसहोदरस्मितरुचा कम्बुं तिरस्कुर्वती
कामारेर्हृदयं विशुद्धमपि संमुग्धं करोत्यन्वहम् ।
आश्चर्यां नमतां धुनोति तिमिरं स्वाज्ञानरूपं परं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५४ ॥

यस्या हासमरालिकामृदुगतिः श्रीकामजेत्रे मुदा
विद्यां बोधयितुं परां वितनुतेऽपाङ्गार्कजातोर्मिषु ।
स्थित्वा श्रौतपथस्थकुण्डलयुगेनालोचनासंततं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५५ ॥

यस्या वीक्षणशक्रमेचकमणीसाम्राज्यसिंहासनं
श्रित्वा पुष्पशरप्रभुर्विजयते त्र्यक्षस्य पार्श्वेऽद्भुतम् ।
पीयूषार्णवफेनजेतृसहितश्रीचामरासेवितः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५६ ॥

नीहाराद्रियशोऽभिवर्धनपरे कुञ्जे कटाक्षात्मके
यस्याः क्रीडति नीलकण्ठविमलप्रज्ञामयूरार्भकः ।
पश्यन् नित्यसुगन्धिकुन्तलमयीं कादम्बिनीं संततं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५७ ॥

या हासार्जुनभूभृता सुखयति द्राग् भीमचित्तं परं
धर्मं पालयति प्रवेशयति वैवर्णेऽनुकूलां गतिम् ।
मालिन्यं नयतेतरां ध्रुवमहो तद्धार्तराष्ट्रं कुलं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५८ ॥

या मुक्ताफलमद्भुतं गिरिभवं श्यामं प्रकाशास्पदं
सत्सूत्रं सकलार्थदं शशिकलाचूडं त्रिणेत्रं चरम् ।
निर्दोषंभवकौतुकप्रदमनाद्यन्तं परं निस्तुलं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ५९ ॥

या वापी भुवनप्रदा रसमयी तृष्णार्दितानां परं
निष्पाशाभिगताभिमानममतापाशाभिलाषान्विता ।
सत्पात्रे फलदायिनी स्मृतिमतां तापत्रयध्वंसिनी
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६० ॥

श‍ृङ्गाराम्बुधवीचिविभ्रमवती श‍ृङ्गारबीजानिल-
व्यालोला कुमुदप्रियध्वजपटी प्रत्यक्चरी पार्वती ।
द्रोणी या विषमेक्षणानुसरणी चित्रं सदा राजते
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६१ ॥

यस्या नीरदभाः कटाक्षयदुपः कर्णानुवृत्तोऽद्भुतं
दीव्यत्कुण्डलहासचक्रजलजश्लिष्टः कृपानीरदः ।
स्थानोर्गोकुलमन्वहं नयति तद्वक्षोजशैलान्तरं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६२ ॥

या चित्रं महतीं महागुणवतीमप्यश्रितं संततं
काठिन्यं न विमुञ्चति स्तनयुगं मान्द्यं गतिः कुन्तलाः ।
कौटिल्यं नयनाम्बुजं चपलतां बिम्बाधरो रागितां
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६३ ॥

या मन्दस्मितकौमुदीं वितनुते नित्योदिते सर्वत-
स्ताटङ्कात्मनि भास्करे स्वयमहो कालाम्बुदश्यामला ।
बिम्बोष्ठद्युतिसंध्यया द्विजगणे श्रीशांभवे रागितां
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६४ ॥

जारे मारकिरातजीवनकरे चित्रं कटाक्षात्मके
यस्याः कुण्डलरश्मिवेणुकलिते लग्ना सुखं राजते ।
कामारेर्मतिशारिका श्रुतिशिरोद्यानान्तरोल्लासिनी
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६५ ॥

नित्यं सोमकलाधरोऽध्वरपतिर्व्याघ्राजिनालंकृत-
स्ताटङ्कद्युतिवह्निवीक्षणशिखाधूमातिलोलेक्षणः ।
यस्या हासपयोनिधाववभृथव्याजेन मज्जत्यहो
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६६ ॥

यस्याः कापि दयात्मिका प्रतिदिनं शैलूषबालाद्भुतं
नीरागालयकालवर्जितवती निर्मूर्च्छना कामना ।
निर्लज्जैव दिगम्बरा नटति हा संमोहशान्त्यै नृणां
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६७ ॥

माङ्गल्यं हरिनीलकान्तिसुगुणं श्लाध्यं सुरस्त्रीजनै-
र्यस्या मञ्जुलवीक्षणं स्मरहाराजस्य देव्या रतेः ।
ओष्ठशीर्वरकुङ्कुमं स्मितमहो स्रङ्माधवी शाश्वती
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६८ ॥

चित्रं कापि सुधा शिवेतरसुरालभ्या हिमाद्र्युद्भवा
द्रुह्यन्ती कुरुविन्दमात्मरुचिभिर्दोषाकरोत्तंसिनी ।
आस्ते या मदनज्वरं शशिभृतः संधुक्षयन्त्यन्वहं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ६९ ॥

अर्धं राज्यमनन्यसाध्यमखिलैश्चर्यप्रदं शूलिनः
शुद्धं मूर्तिमयं ययातिविनयैः प्राप्तं तदन्यत् पुनः ।
व्याप्तुं वाञ्छति गारुडोपलवपुः कान्त्या महत्या परं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७० ॥

अर्धं सोमकलाधरी शशिकलाचूडस्य या त्र्यम्बक-
स्त्र्यक्षाया अथवा सनातनतनू जायापती शाश्वतौ ।
एकं वेत्यवधारितुं मुनिवरा अद्याप्यलं नाद्भुतं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७१ ॥

दारिद्र्यास्तधराधरोऽपि परमं भद्रोदयोऽत्यद्भुतं
पापारण्यदवानलोऽपि नमतां कारुण्यधाराधरः ।
या दुह्खाम्बुदमालिकापवनराण्नैश्चल्यरूपास्ति वै
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७२ ॥

श्रौतं मार्गमतीत्य गच्छति मुदा कापालिकं दृक् परं
मध्यः शून्यमतं गतोऽतिविमले द्वन्द्वे कुचौ द्वैतिनौ ।
सौरे कुण्डलयुग्ममात्मरुचिभिर्यस्याः कृपा शांभवे
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७३ ॥

वल्ली कापि शिवाङ्कणे लसति या मन्दस्मितैः पुष्पिता
ताम्बूलेन सुगन्धिता सुफलिता वक्षोरुहाभ्यां परम् ।
कान्त्या पल्लविता कचैर्भ्रमरिता दृग्भ्यां परं पत्रिता
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७४ ॥

यस्या वीक्षणदेशिकः श्रुतिगतिस्तेजोमयः सर्ववित्
संतुष्टो जितकामशत्रुरणिमाद्यष्टाभिराराधिता ।
सच्चित्सौख्यरतः शिवं नटमपि क्षिप्रं करोत्यद्भुतं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७५ ॥

यस्याश्चारुकपोलदर्पणतले दृष्ट्वा कपर्दी रुषा
भीतो जह्नुसुतां मृदुस्मितमयीं संकेतमित्थं व्यधात् ।
मुग्धे गच्छ निजस्थलं द्रुततर्ं जागर्ति दृष्टिर्यतः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७६ ॥

श‍ृङ्गारैकरसं वसन्तसुहृदं कंदर्पदर्पप्रदं
चित्रं कोकनदप्रबोधनकरं चन्द्रोदयं श्रीकरम् ।
यस्या हासमयं चिरमप्यास्ते पुराणः शिवः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७७ ॥

See Also  Gorakshashatakam 2 In Malayalam – Gorakhnath

या काचित् पिककामिनी श्रुतिगतिः सप्तस्वरालापिनी
नित्यं माधवबोधिनी त्रिभुवने निष्पक्षपाता सुखम् ।
चित्रं चूतनवप्रसूनविशिखद्वेष्याश्रये राजते
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७८ ॥

यस्या वीक्षणमान्त्रिकः सुकृतिनामग्रेसरः शंकरी-
मन्त्राम्भोनिधिपारगः स्मितविभूत्योच्चालयन् सर्वदा ।
द्वेषं शंकरकर्तृकं सुमशरे विभ्राजते शाश्वतः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ७९ ॥

यस्या दृग्रमणीमणिर्विवदते कामारिसल्लापने
स्वाधीनप्रियया मृदुस्मितशरीरिण्या परं गङ्गया ।
आद्याहंश्रुतिमूलगाधरभवा त्वं स्वीकृतेति ध्रुवं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८० ॥

या काचिद् भुजगी सदा सरलगा पीयूषदायिन्यहो
पद्मारण्यविहारिणी श्रुतिमती तेजस्तनूर्निर्भया ।
जन्माब्धिप्लववर्धिनी वशयति श्रीनीलकण्ठं दृशा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८१ ॥

आस्याम्भोजभवा पतिं निजमनाद्यन्तं कटाक्षात्मकं
पृच्छन्तीति पयोनिधेः स्मितमयान्मज्जन्म किं वाम्बुजात् ।
यस्या निःस्मरसंपदं सुधनिकं कर्तुं शिवं काङ्क्षते
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८२ ॥

यस्याः पाणिपरिग्रहे मृदुतनोर्हेमाद्रिधन्वा शिवः
पादान्यासविधौ दृषद्यपि सुरस्त्रीणां पुरो लज्जितः ।
मन्दाक्षं गतवाननङ्गकलिकां यां वीक्षितुं नाद्भुतं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८३ ॥

यस्याः पादकेशशयश्रियमहो श्रुत्वानिलादन्वहं
गाङ्गान्यम्बुरुहाणि हन्त कतिचित् प्राप्तुं परां तां द्रुतम् ।
पीत्वा क्षीरलवं तपन्ति तपनं पश्यन्ति मज्जन्त्यलं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८४ ॥

नित्यं संधिमपेक्षते सुचरिता दूती कटाक्षात्मिका
राजस्याधररामयापि न तया गर्भे वहन्त्यामृतम् ।
कामारे रतिसात्त्विकद्विजमणेर्मोदाय सुश्रेयसे
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८५ ॥

पक्षे शैवमनोमहीभृति मनोजाग्निं ध्रुवं साधयन्
यस्या मञ्जुकटाक्षधूमशिशुना श्रौतेन सद्धेतुना ।
ओष्ठद्वन्द्वसभान्तरे स्मितमयो नैयायिको भासते
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८६ ॥

या पद्मं हिमशैलजं मरतकं भासा भृशं भर्त्सयत्
कंदर्पस्य ज्येन्दिराजनिगृहं निर्हेतुकोत्फुल्लनम् ।
स्थाणोर्लोचनभृङ्गसंभ्रमकरं शीतांशुलेखाङ्कितं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८७ ॥

यस्या मन्दगतिः परं शुभगतिः कामस्य कामद्रुहः
कामोद्रेकगतिश्चिरं भजनकृद्धंसाङ्गनासंततेः ।
कामं दत्तगतिः सदा विजयते हंसात्मिका योगिनां
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८८ ॥

निःस्नेहापि शिवातिरागकलिता या दीपिका काप्यहो
झञ्झामारुतभीतिदापि चपला निष्कल्मषा साञ्जना ।
त्रैलोक्येऽपि विराजते श्रितवती श्रीशंकराङ्कं ध्रुवं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ८९ ॥

निर्यत्नैव महासती सुचरिता या शैलराजात्मजा
नाथं लोकविलक्षणं प्रहृतवत्यद्यापि सेवाजने ।
गाण्डीवेन वराश्मभिश्च मुसलेनोपानहा वर्तते
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९० ॥

यस्याः पादकिसालयप्रभुवरं याचन्त्यजस्रं परं
कस्तूर्यः सुरयोषितां तिलकिताः सद्वासनां रागिताम् ।
बिम्बोष्ठं मृदुतां श्रियं च युगपद्धस्ताः प्रवालप्रियाः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९१ ॥

यस्याः पादसहस्ररश्मिचरलं कामारिचित्तात्मकं
हैमं भ्रामयति प्रणाशयति संतापं सतामङ्कुरम् ।
प्रज्ञानात्मकमद्भुतं शिशिरयत्यक्षीण्यलं पश्यतां
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९२ ॥

चित्रं या कुरुते मनोऽपि यमिनां बद्धं महायत्नतो
मुक्तं शोणपदारविन्दयुगले नीरागिणं रागिणम् ।
मञ्जीरस्वनमन्मथस्मितरवैः संमोहनं शूलिनः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९३ ॥

पादाम्भोजरजो रजांसि हरति प्रौढानि यस्या नृणां
सत्त्वं वर्धयति प्रदर्शयति सन्मार्गं सुराणामपि ।
जन्मव्याधिमृतिप्रवाहमतुलं संरोधयत्यद्भुतं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९४ ॥

नाहं विश्वमिदं चराचरमयं मायाविलासास्पदं
दृश्यत्वादिति शोधयन्ति सुधियः सर्वं यया प्रज्ञया ।
आत्मैवायमिदं वदन्ति पुनस्तूष्णींभवन्तः स्थिताः
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९५ ॥

राहुं निन्दति चन्द्रचूडचिकुरैस्ताटङ्ककान्त्या रविं
वक्त्राब्जेन विधुं गुरुं नतगिरा सौग्यं दृशा भद्रया ।
गत्या मन्दमहो कुजं तनुरुचा नासाग्रमण्या कविं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९६ ॥

निःश्रेणी कृतिनां परामृतफलप्राप्तौ प्रवालद्युति-
र्या नीलाञ्जनमक्षरात्मकनिधेः संदर्शने श्रीमताम् ।
नित्यानन्दरसा परोक्षकरणे श्रीदेशिकश्रीकृपा
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९७ ॥

या कुण्ठीकुरुते निजस्तुतिविधौ गर्वात् प्रवृत्तां गिरं
वेदानामपि गीष्पतेरपि महाभाष्यार्थविज्ञानिनः ।
दत्ते वाग्भववैभवामृतझरीं मूकाज्ञयोर्वाग्मितां
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९८ ॥

आद्यामम्बुरुहेक्षणामनुपमामापीनतुङ्गस्तनी-
मार्यामागमसारमूर्तिमरुणामानन्दचन्द्राननाम् ।
साध्वीं सत्कविवाग्झरीं समरसानन्दामृतस्यन्दिनीं
सा संवित् सुकृतोदया स्फुरतु नश्चित्ते सदा सर्वगा ॥ ९९ ॥

गुरुचरणसरोजं गुप्तगङ्गातरङ्ग-
स्तिमितममितशुक्लज्योतिषां ज्योतिरेकम् ।
निरुपममकरन्दस्पन्दमानन्दकन्दं
निधनजननहीनो निर्मलोऽहं निषेवे ॥ १०० ॥

शार्दूलवृत्तमपि साधु भवत्यहो तत्
सारस्वतं समरसामृतलोचनानाम् ।
सद्यो जयत्यघरिपुं श्रुतिमार्गयोगात्
त्यागेशसान्द्रकरुणाद्भुतमेव भद्रम् ॥ १०१ ॥

इत्यानन्दनाथपादपपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण
त्यागराजनाम्ना विरचितं संविच्छतकं संपूर्णम्