Shachitanaya Ashtakam In Sanskrit

॥ Shachitanayashtakam Sanskrit Lyrics ॥

॥ शचीतनयाष्टकम् ॥ 
उज्ज्वलावरणगौरवरदेहं
विलसितनिरवधिभावविदेहम् ।
त्रिभुवनपावनकृपायाः लेशं
तं प्रणमामि च श्रीशचीतनयम् ॥ १॥

गद्गदान्तरभावविकारं
दुर्जनतर्जननादविशालम् ।
भवभयभञ्जनकारणकरुणं
तं प्रणमामि च श्रीशचीतनयम् ॥ २॥

अरुणाम्बरधरचारुकपोलं
इन्दुविनिन्दितनखचयरुचिरम् ।
जल्पितनिजगुणनामविनोदं
तं प्रणमामि च श्रीशचीतनयम् ॥ ३॥

विगलितनयनकमलजलधारं
भूषणनवरसभावविकारम् ।
गतिअतिमन्थरनृत्यविलासं
तं प्रणमामि च श्रीशचीतनयम् ॥ ४॥

चञ्चलचारुचरणगतिरुचिरं
मञ्जीररञ्जितपदयुगमधुरम् ।
चन्द्रविनिन्दितशीतलवदनं
तं प्रणमामि च श्रीशचीतनयम् ॥ ५॥

धृतकटिडोरकमण्डलुदण्डं
दिव्यकलेवरमुण्डितमुण्डम् ।
दुर्जनकल्मषखण्डनदण्डं
तं प्रणमामि च श्रीशचीतनयम् ॥ ६॥

भूषणभूरज अलकावलितं
कम्पितबिम्बाधरवररुचिरम् ।
मलयजविरचित उज्ज्वलतिलकं
तं प्रणमामि च श्रीशचीतनयम् ॥ ७॥

निन्दितारुणकमलदलनयनं
आजानुलम्बितश्रीभुजयुगलम् ।
कलेवरकैशोरनर्तकवेशं
तं प्रणमामि च श्रीशचीतनयम् ॥ ८॥

इति सार्वभौमभट्टाछर्यविरचितं शचीतनयाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Shachitanaya Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Ardhanareeswara Ashtakam In Malayalam