॥ Shatashatakotisharatparyantam Sanskrit Lyrics ॥
॥ शतशतकोटिशरत्पर्यन्तं ॥
शतशतकोटिशरत्पर्यन्तं
प्रवहतात् संस्कृतमन्दाकिनी ॥ ध्रुवम् ॥
सिन्धु-सुतुद्रीसरस्वतीनां
तटे ऋषीणां ध्यानपराणाम् ।
होमधूम-पावित-लोकानां
अत्रिभृगूणां छन्दोवाणी ॥ १ ॥
वाल्मीकिमुनि-व्यासविरचिता
रामकृष्णयोः पावनगाथा ।
अखण्डदीपो भगवद्गीता
कर्मयोग-सन्देश-दायिनी ॥ २ ॥
इयमस्माकं धर्मभारतीव्व्
राष्ट्रैक्यस्य च महती स्फूर्तिः
विना संस्कृतं नैव संस्कृतिः
इह परत्र कल्याणकारिणी ॥ ३ ॥
– Chant Stotra in Other Languages –
Shatashatakotisharatparyantam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil