Sri Anjaneya Sahasranama Stotram In Sanskrit

॥ Sri Anjaneya Sahasranama Stotram Sanskrit Lyrics ॥

॥ श्री आञ्जनेय सहस्रनाम स्तोत्रम् ॥
ओं अस्य श्रीहनुमत्सहस्रनामस्तोत्र मन्त्रस्य श्रीरामचन्द्रऋषिः । अनुष्टुप्छन्दः । श्रीहनुमान्महारुद्रो देवता । ह्रीं श्रीं ह्रौं ह्रां बीजं । श्रीं इति शक्तिः । किलिकिल बु बु कारेण इति कीलकम् । लङ्काविध्वंसनेति कवचम् । मम सर्वोपद्रवशान्त्यर्थे मम सर्वकार्यसिद्ध्यर्थे जपे विनियोगः ॥

ध्यानम् –
प्रतप्तस्वर्णवर्णाभं संरक्तारुणलोचनम् ।
सुग्रीवादियुतं ध्यायेत् पीताम्बरसमावृतम् ॥
गोष्पदीकृतवाराशिं पुच्छमस्तकमीश्वरम् ।
ज्ञानमुद्रां च बिभ्राणं सर्वालङ्कारभूषितम् ॥

वामहस्तसमाकृष्टदशास्याननमण्डलम् ।
उद्यद्दक्षिणदोर्दण्डं हनूमन्तं विचिन्तयेत् ॥

स्तोत्रं –
ओं हनूमान् श्रीप्रदो वायुपुत्रो रुद्रोऽनघोऽजरः ।
अमृत्युर्वीरवीरश्च ग्रामवासो जनाश्रयः ॥ १ ॥

धनदो निर्गुणश्शूरो वीरो निधिपतिर्मुनिः ।
पिङ्गाक्षो वरदो वाग्मी सीताशोकविनाशनः ॥ २ ॥

शिवः शर्वः परोऽव्यक्तो व्यक्ताव्यक्तो धराधरः ।
पिङ्गकेशः पिङ्गरोमा श्रुतिगम्यः सनातनः ॥ ३ ॥

अनादिर्भगवान् देवो विश्वहेतुर्जनाश्रयः ।
आरोग्यकर्ता विश्वेशो विश्वनाथो हरीश्वरः ॥ ४ ॥

भर्गो रामो रामभक्तः कल्याणः प्रकृतिस्थिरः ।
विश्वम्भरो विश्वमूर्तिर्विश्वाकारश्च विश्वपः ॥ ५ ॥

विश्वात्मा विश्वसेव्योऽथ विश्वो विश्वहरो रविः ।
विश्वचेष्टो विश्वगम्यो विश्वध्येयः कलाधरः ॥ ६ ॥

प्लवङ्गमः कपिश्रेष्ठो ज्येष्ठो विद्यावनेचरः ।
बालो वृद्धो युवा तत्त्वं तत्त्वगम्यः सुखो ह्यजः ॥ ७ ॥

अञ्जनासूनुरव्यग्रो ग्रामशान्तो धराधरः ।
भूर्भुवःस्वर्महर्लोको जनोलोकस्तपोऽव्ययः ॥ ८ ॥

सत्यमोङ्कारगम्यश्च प्रणवो व्यापकोऽमलः ।
शिवो धर्मप्रतिष्ठाता रामेष्टः फल्गुणप्रियः ॥ ९ ॥

गोष्पदीकृतवाराशिः पूर्णकामो धरापतिः ।
रक्षोघ्नः पुण्डरीकाक्षः शरणागतवत्सलः ॥ १० ॥

जानकीप्राणदाता च रक्षः प्राणापहारकः ।
पूर्णसत्त्वः पीतवासाः दिवाकरसमप्रभः ॥ ११ ॥

द्रोणहर्ता शक्तिनेता शक्तिराक्षसमारकः ।
रक्षोघ्नो रामदूतश्च शाकिनीजीवहारकः ॥ १२ ॥

भुभुक्कारहतारातिर्गर्वः पर्वतभेदनः ।
हेतुमान् प्रांशुबीजं च विश्वभर्ता जगद्गुरुः ॥ १३ ॥

जगत्त्राता जगन्नाथो जगदीशो जनेश्वरः ।
जगत्पिता हरिः श्रीशो गरुडस्मयभञ्जनः ॥ १४ ॥

पार्थध्वजो वायुपुत्रोऽमितपुच्छोऽमितप्रभः ।
ब्रह्मपुच्छः परब्रह्मपुच्छो रामेष्ट एव च ॥ १५ ॥

सुग्रीवादियुतो ज्ञानी वानरो वानरेश्वरः ।
कल्पस्थायी चिरञ्जीवी प्रसन्नश्च सदाशिवः ॥ १६ ॥

सन्मतिः सद्गतिर्भुक्तिमुक्तिदः कीर्तिदायकः ।
कीर्तिः कीर्तिप्रदश्चैव समुद्रः श्रीप्रदः शिवः ॥ १७ ॥

उदधिक्रमणो देवः संसारभयनाशनः ।
वार्धिबन्धनकृद्विश्वजेता विश्वप्रतिष्ठितः ॥ १८ ॥

लङ्कारिः कालपुरुषो लङ्केशगृहभञ्जनः ।
भूतावासो वासुदेवो वसुस्त्रिभुवनेश्वरः ॥

श्रीरामदूतः कृष्णश्च लङ्काप्रासादभञ्जनः ।
कृष्णः कृष्णस्तुतः शान्तः शान्तिदो विश्वभावनः ॥ २० ॥

विश्वभोक्ता च मारीघ्नो ब्रह्मचारी जितेन्द्रियः ।
ऊर्ध्वगो लाङ्गुली माली लाङ्गूलहतराक्षसः ॥ २१ ॥

समीरतनुजो वीरो वीरमारो जयप्रदः ।
जगन्मङ्गलदः पुण्यः पुण्यश्रवणकीर्तनः ॥ २२ ॥

पुण्यकीर्तिः पुण्यगतिः जगत्पावनपावनः ।
देवेशो जितरोधश्च रामभक्तिविधायकः ॥ २३ ॥

ध्याता ध्येयो नभस्साक्षी चेतश्चैतन्यविग्रहः ।
ज्ञानदः प्राणदः प्राणो जगत्प्राणः समीरणः ॥ २४ ॥

विभीषणप्रियः शूरः पिप्पलाश्रयसिद्धिदः ।
सुहृत्सिद्धाश्रयः कालः कालभक्षकभर्जितः ॥ २५ ॥

लङ्केशनिधन स्थायी लङ्कादाहक ईश्वरः ।
चन्द्रसूर्याग्निनेत्रश्च कालाग्निः प्रलयान्तकः ॥ २६ ॥

कपिलः कपिशः पुण्यराशिर्द्वादशराशिगः ।
सर्वाश्रयोऽप्रमेयात्मा रेवत्यादिनिवारकः ॥ २७ ॥

लक्ष्मणप्राणदाता च सीताजीवनहेतुकः ।
रामध्येयो हृषीकेशो विष्णुभक्तो जटी बली ॥ २८ ॥

See Also  Heramba Upanishad In Sanskrit

देवारिदर्पहा होता कर्ता हर्ता जगत्प्रभुः ।
नगरग्रामपालश्च शुद्धो बुद्धो निरन्तरः ॥ २९ ॥

निरञ्जनो निर्विकल्पो गुणातीतो भयङ्करः ।
हनुमांश्च दुराराध्यस्स्तपस्साध्योऽमरेश्वरः ॥ ३० ॥

जानकीघनशोकोत्थतापहर्ता परात्परः ।
वाङ्मयः सदसद्रूपः कारणं प्रकृतेः परः ॥ ३१ ॥

भाग्यदो निर्मलो नेता पुच्छलङ्काविदाहकः ।
पुच्छबद्धो यातुधानो यातुधानरिपुप्रियः ॥ ३२ ॥

छायापहारी भूतेशो लोकेशः सद्गतिप्रदः ।
प्लवङ्गमेश्वरः क्रोधः क्रोधसंरक्तलोचनः ॥ ३३ ॥

क्रोधहर्ता तापहर्ता भक्ताभयवरप्रदः ।
भक्तानुकम्पे विश्वेशः पुरुहूतः पुरन्दरः ॥ ३४ ॥

अग्निर्विभावसुर्भास्वान् यमो निर्‍ऋतिरेव च ।
वरुणो वायुगतिमान् वायुः कौबेर ईश्वरः ॥ ३५ ॥

रविश्चन्द्रः सुखः सौम्यो गुरुः काव्यः शनैश्चरः ।
राहुः केतुर्मरुद्धोता धाता हर्ता समीरकः ॥ ३६ ॥

मशकीकृतदेवारिः दैत्यारिर्मधुसूदनः ।
कामः कपिः कामपालः कपिलो विश्वजीवनः ॥ ३७ ॥

भागीरथिपदाम्भोजः सेतुबन्धविशारदः ।
स्वाहा स्वधा हविः कव्यं हव्यकव्यप्रकाशकः ॥ ३८ ॥

स्वप्रकाशो महावीरो लघुश्चामितविक्रमः ।
प्रड्डिनोड्डीनगतिमान् सद्गतिः पुरुषोत्तमः ॥ ३९ ॥

जगदात्मा जगद्योनिर्जगदन्तो ह्यनन्तकः ।
विपाप्मा निष्कलङ्कऽश्च महान् महदहङ्कृतिः ॥ ४० ॥

खं वायुः पृथिवी ह्यापो वह्निर्दिक्काल एवच ।
क्षेत्रज्ञः क्षेत्रपालश्च पल्वलीकृतसागरः ॥ ४१ ॥

हिरण्मयः पुराणश्च खेचरो भूचरो मनुः ।
हिरण्यगर्भः सूत्रात्मा राजराजो विशाम्पतिः ॥ ४२ ॥

वेदान्तवेद्योद्गीथश्च वेद वेदाङ्गपारगः ।
प्रतिग्रामस्थितः सद्यः स्फूर्तिदाता गुणाकरः ॥ ४३ ॥

नक्षत्रमाली भूतात्मा सुरभिः कल्पपादपः ।
चिन्तामणिर्गुणनिधिः प्रजापतिरनुत्तमः ॥ ४४ ॥

पुण्यश्लोकः पुरारातिर्ज्योतिष्मान् शार्वरीपतिः ।
किलिकिल्यारवत्रस्तभूतप्रेतपिशाचकः ॥ ४५ ॥

ऋणत्रयहरः सूक्ष्मः स्थूलः सर्वगतिः पुमान् ।
अपस्मारहरः स्मर्ता श्रुतिर्गाधा स्मृतिर्मनुः ॥ ४६ ॥

स्वर्गद्वारः प्रजाद्वारो मोक्षद्वारः कपीश्वरः ।
नादरूपः परब्रह्म ब्रह्म ब्रह्मपुरातनः ॥ ४७ ॥

एकोनैको जनः शुक्लः स्वयञ्ज्योतिरनाकुलः ।
ज्योतिर्ज्योतिरनादिश्च सात्त्विको राजसत्तमः ॥ ४८ ॥

तमोहर्ता निरालम्बो निराकारो गुणाकरः ।
गुणाश्रयो गुणमयो बृहत्कायो बृहद्यशाः ॥

बृहद्धनुर्बृहत्पादो बृहन्मूर्धा बृहत्स्वनः ।
बृहत्कर्णो बृहन्नासो बृहन्नेत्रो बृहद्गलः ॥ ५० ॥

बृहद्यत्नो बृहच्चेष्टो बृहत्पुच्छो बृहत्करः ।
बृहद्गतिर्बृहत्सेव्यो बृहल्लोकफलप्रदः ॥ ५१ ॥

बृहच्छक्तिर्बृहद्वाञ्छाफलदो बृहदीश्वरः ।
बृहल्लोकनुतो द्रष्टा विद्यादाता जगद्गुरुः ॥ ५२ ॥

देवाचार्यः सत्यवादी ब्रह्मवादी कलाधरः ।
सप्तपातालगामी च मलयाचलसंश्रयः ॥ ५३ ॥

उत्तराशास्थितः श्रीदो दिव्यौषधवशः खगः ।
शाखामृगः कपीन्द्र श्च पुराणः श्रुतिसञ्चरः ॥ ५४ ॥

चतुरो ब्राह्मणो योगी योगगम्यः परात्परः ।
अनादिनिधनो व्यासो वैकुण्ठः पृथिवीपतिः ॥ ५५ ॥

पराजितो जितारातिः सदानन्दश्च ईशिता ।
गोपालो गोपतिर्गोप्ता कलिः कालः परात्परः ॥ ५६ ॥

मनोवेगी सदायोगी संसारभयनाशनः ।
तत्त्वदाता च तत्त्वज्ञः तत्त्वं तत्त्वप्रकाशकः ॥ ५७ ॥

शुद्धो बुद्धो नित्यमुक्तो युक्ताकारो जयप्रदः ।
प्रलयोऽमितमायश्च मायातीतो विमत्सरः ॥ ५८ ॥

मायानिर्जितरक्षश्च मायानिर्मितविष्टपः ।
मायाश्रयश्च निर्लेपो मायानिर्वञ्चकः सुखः ॥

सुखी सुखप्रदो नागो महेशकृतसंस्तवः ।
महेश्वरः सत्यसन्धः शरभः कलिपावनः ॥ ६० ॥

रसो रसज्ञः सम्मानो तपश्चक्षुः च भैरवः ।
घ्राणो गन्धः स्पर्शनं च स्पर्शोऽहङ्कारमानदः ॥ ६१ ॥

See Also  108 Names Of Sri Hanuman 1 In Odia

नेति नेतीति गम्यश्च वैकुण्ठभजनप्रियः ।
गिरिशो गिरिजाकान्तो दुर्वासाः कविरङ्गिराः ॥ ६२ ॥

भृगुर्वसिष्ठश्च्यवनो तुम्बुरुर्नारदोऽमलः ।
विश्वक्षेत्रं विश्वबीजं विश्वनेत्रश्च विश्वपः ॥ ६३ ॥

याजको यजमानश्च पावकः पितरस्तथा ।
श्रद्धा बुद्धिः क्षमा तन्द्रा मन्त्रो मन्त्रयुतस्स्वरः ॥ ६४ ॥

राजेन्द्रो भूपतिः कण्ठमाली संसारसारथिः ।
नित्यः सम्पूर्णकामश्च भक्तकामधुगुत्तमः ॥ ६५ ॥

गणपः कीशपो भ्राता पिता माता च मारुतिः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ ६६ ॥

कामजित् कामदहनः कामः काम्यफलप्रदः ।
मुद्राहारी रक्षोघ्नः क्षितिभारहरो बलः ॥ ६७ ॥

नखदम्ष्ट्रायुधो विष्णुभक्तोऽभयवरप्रदः ।
दर्पहा दर्पदो दृप्तः शतमूर्तिः अमूर्तिमान् ॥ ६८ ॥

महानिधिर्महाभागो महाभोगो महार्थदः ।
महाकारो महायोगी महातेजा महाद्युतिः ॥ ६९ ॥

महाकर्मा महानादो महामन्त्रो महामतिः ।
महाशयो महोदारो महादेवात्मको विभुः ॥ ७० ॥

रुद्रकर्मा क्रूरकर्मा रत्ननाभः कृतागमः ।
अम्भोधिलङ्घनः सिंहो नित्यो धर्मप्रमोदनः ॥ ७१ ॥

जितामित्रो जयः सामो विजयो वायुवाहनः ।
जीवदाता सहस्रांशुः मुकुन्दो भूरिदक्षिणः ॥ ७२ ॥

सिद्धार्थः सिद्धिदः सिद्धसङ्कल्पः सिद्धिहेतुकः ।
सप्तपातालभरणः सप्तर्षिगणवन्दितः ॥ ७३ ॥

सप्ताब्धिलङ्घनो वीरः सप्तद्वीपोरुमण्डलः ।
सप्ताङ्गराज्यसुखदः सप्तमातृनिषेवितः ॥ ७४ ॥

सप्तलोकैकमकुटः सप्तहोता स्वराश्रयः ।
सप्तच्छन्दोनिधिः सप्तच्छन्दः सप्तजनाश्रयः ॥ ७५ ॥

सप्तसामोपगीतश्च सप्तपातालसंश्रयः ।
मेधावी कीर्तिदः शोकहारी दौर्भाग्यनाशनः ॥ ७६ ॥

सर्ववश्यकरो भर्गो दोषघ्नः पुत्रपौत्रदः ।
प्रतिवादिमुखस्तम्भो दुष्टचित्तप्रसादनः ॥ ७७ ॥

पराभिचारशमनो दुःखघ्नो बन्धमोक्षदः ।
नवद्वारपुराधारो नवद्वारनिकेतनः ॥ ७८ ॥

नरनारायणस्तुत्यो नरनाथो महेश्वरः ।
मेखली कवची खड्गी भ्राजिष्णुर्विष्णुसारथिः ॥ ७९ ॥

बहुयोजनविस्तीर्णपुच्छः पुच्छहतासुरः ।
दुष्टग्रहनिहन्ता च पिशाचग्रहघातुकः ॥ ८० ॥

बालग्रहविनाशी च धर्मोनेता कृपाकरः ।
उग्रकृत्योग्रवेगश्च उग्रनेत्रः शतक्रतुः ॥ ८१ ॥

शतमन्युः स्तुतः स्तुत्यः स्तुतिः स्तोता महाबलः ।
समग्रगुणशाली च व्यग्रो रक्षोविनाशकः ॥ ८२ ॥

रक्षोघ्नहस्तो ब्रह्मेशः श्रीधरो भक्तवत्सलः ।
मेघनादो मेघरूपो मेघवृष्टिनिवारकः ॥ ८३ ॥

मेघजीवनहेतुश्च मेघश्यामः परात्मकः ।
समीरतनयो बोद्धा तत्त्वविद्याविशारदः ॥ ८४ ॥

अमोघोऽमोघवृद्धिश्च इष्टदोऽनिष्टनाशकः ।
अर्थो अर्थापहारी च समर्थो रामसेवकः ॥ ८५ ॥

अर्थी धन्यस्सुरारातिः पुण्डरीकाक्ष आत्मभूः ।
सङ्कर्षणो विशुद्धात्मा विद्याराशिः सुरेश्वरः ॥ ८६ ॥

अचलोद्धारको नित्यः सेतुकृद्रामसारथिः ।
आनन्दः परमानन्दो मत्स्यः कूर्मो निधिः शमः ॥ ८७ ॥

वराहो नारसिंहश्च वामनो जमदग्निजः ।
रामः कृष्णः शिवो बुद्धः कल्की रामाश्रयो हरः ॥ ८८ ॥

नन्दी भृङ्गी च चण्डी च गणेशो गणसेवितः ।
कर्माध्यक्षः सुराध्यक्षो विश्रमो जगताम्पतिः ॥

जगन्नाथः कपिश्रेष्ठः सर्वावासः सदाश्रयः ।
सुग्रीवादिस्तुतः शान्तः सर्वकर्म प्लवङ्गमः ॥ ९० ॥

नखदारितरक्षश्च नखायुधविशारदः ।
कुशलः सुधनः शेषो वासुकिस्तक्षकस्स्वरः ॥ ९१ ॥

स्वर्णवर्णो बलाढ्यश्च रामपूज्योऽघनाशनः ।
कैवल्यदीपः कैवल्यो गरुडः पन्नगो गुरुः ॥ ९२ ॥

किल्यारावहतारातिगर्वः पर्वतभेदनः ।
वज्राङ्गो वज्रवेगश्च भक्तो वज्रनिवारकः ॥ ९३ ॥

नखायुधो मणिग्रीवो ज्वालामाली च भास्करः ।
प्रौढ प्रतापस्तपनो भक्ततापनिवारकः ॥ ९४ ॥

See Also  1000 Names Of Hanumat In Tamil

शरणं जीवनं भोक्ता नानाचेष्टो ह्यचञ्चलः ।
सुस्वस्थोऽष्टास्यहा दुःखशमनः पवनात्मजः ॥ ९५ ॥

पावनः पवनः कान्तो भक्तागस्सहनो बलः ।
मेघनादरिपुर्मेघनादसंहृतराक्षसः ॥ ९६ ॥

क्षरोऽक्षरो विनीतात्मा वानरेशः सताङ्गतिः ।
श्रीकण्ठः शितिकण्ठश्च सहायः सहनायकः ॥ ९७ ॥

अस्थूलस्त्वनणुर्भर्गो देवः संसृतिनाशनः ।
अध्यात्मविद्यासारश्च अध्यात्मकुशलः सुधीः ॥ ९८ ॥

अकल्मषः सत्यहेतुः सत्यगः सत्यगोचरः ।
सत्यगर्भः सत्यरूपः सत्यः सत्यपराक्रमः ॥ ९९ ॥

अञ्जनाप्राणलिङ्गश्च वायुवंशोद्भवः सुधीः ।
भद्ररूपो रुद्ररूपः सुरूपश्चित्ररूपधृत् ॥ १०० ॥

मैनाकवन्दितः सूक्ष्मदर्शनो विजयो जयः ।
क्रान्तदिङ्मण्डलो रुद्रः प्रकटीकृतविक्रमः ॥ १०१ ॥

कम्बुकण्ठः प्रसन्नात्मा ह्रस्वनासो वृकोदरः ।
लम्बोष्ठः कुण्डली चित्रमाली योगविदां वरः ॥ १०२ ॥

विपश्चित् कविरानन्दविग्रहोऽनन्यशासनः ।
फल्गुनीसूनुरव्यग्रो योगात्मा योगतत्परः ॥ १०३ ॥

योगवेद्यो योगरक्तो योगयोनिर्दिगम्बरः ।
अकारादिक्षकारान्तवर्णनिर्मितविग्रहः ॥ १०४ ॥

उलूखलमुखः सिंहः संस्तुतः परमेश्वरः ।
श्लिष्टजङ्घः श्लिष्टजानुः श्लिष्टपाणिः शिखाधरः ॥ १०५ ॥

सुशर्माऽमितशर्मा च नारायणपरायणः ।
जिष्णुर्भविष्णू रोचिष्णुर्ग्रसिष्णुः स्थाणुरेव च ॥ १०६ ॥

हरिरुद्रानुकृद्वृक्षकम्पनो भूमिकम्पनः ।
गुणप्रवाहः सूत्रात्मा वीतरागः स्तुतिप्रियः ॥ १०७ ॥

नागकन्याभयध्वंसी रुक्मवर्णः कपालभृत् ।
अनाकुलो भवोऽपायोऽनपायो वेदपारगः ॥ १०८ ॥

अक्षरः पुरुषो लोकनाथो रक्षः प्रभुर्दृढः ।
अष्टाङ्गयोगफलभुक् सत्यसन्धः पुरुष्टुतः ॥ १०९ ॥

श्मशानस्थाननिलयः प्रेतविद्रावणक्षमः ।
पञ्चाक्षरपरः पञ्चमातृको रञ्जनध्वजः ॥ ११० ॥

योगिनीबृन्दवन्द्यश्च शत्रुघ्नोऽनन्तविक्रमः ।
ब्रह्मचारीन्द्रियरिपुर्धृतदण्डो दशात्मकः ॥ १११ ॥

अप्रपञ्चः सदाचारः शूरसेनविदारकः ।
वृद्धः प्रमोदश्चानन्दः सप्तजिह्वापतिर्धरः ॥ ११२ ॥

नवद्वारपुराधारः प्रत्यग्रः सामगायकः ।
षट्चक्रधामा स्वर्लोको भयहृन्मानदोऽमदः ॥ ११३ ॥

सर्ववश्यकरः शक्तिर्नेता चाऽनन्तमङ्गलः ।
अष्टमूर्तिधरो नेता विरूपः स्वरसुन्दरः ॥ ११४ ॥

धूमकेतुर्महाकेतुः सत्यकेतुर्महारथः ।
नन्दिप्रियः स्वतन्त्रश्च मेखली समरप्रियः ॥ ११५ ॥

लोहाङ्गः सर्वविद्धन्वी षट्कलश्शर्व ईश्वरः ।
फलभुक् फलहस्तश्च सर्वकर्मफलप्रदः ॥ ११६ ॥

धर्माध्यक्षो धर्मफलो धर्मो धर्मप्रदोऽर्थदः ।
पञ्चविंशतितत्त्वज्ञस्तारकः ब्रह्मतत्परः ॥ ११७ ॥

त्रिमार्गवसतिर्भीमः सर्वदुःखनिबर्हणः ।
ऊर्जस्वान् निर्गलः शूली माली गर्भोनिशाचरः ॥ ११८ ॥

रक्ताम्बरधरो रक्तो रक्तमालाविभूषणः ।
वनमाली शुभाङ्गश्च श्वेतः श्वेताम्बरो युवा ॥ ११९ ॥

जयोऽजयपरीवारः सहस्रवदनः कविः ।
शाकिनीढाकिनीयक्षरक्षोभूतौघभञ्जनः ॥ १२० ॥

सद्योजातः कामगतिर्ज्ञानमूर्तिर्यशस्करः ।
शम्भुतेजाः सार्वभौमो विष्णुभक्तः प्लवङ्गमः ॥ १२१ ॥

चतुर्नवतिमन्त्रज्ञः पौलस्त्यबलदर्पहा ।
सर्वलक्ष्मीप्रदः श्रीमानङ्गदप्रिय ईडितः ॥ १२२ ॥

स्मृतिर्बीजं सुरेशानः संसारभयनाशनः ।
उत्तमः श्रीपरीवारः श्रीभूदुर्गा च कामधृक् ॥ १२३ ॥

सदागतिर्मातरिश्वा रामपादाब्जषट्पदः ।
नीलप्रियो नीलवर्णो नीलवर्णप्रियः सुहृत् ॥ १२४ ॥

रामदूतो लोकबन्धुरन्तरात्मा मनोरमः ।
श्रीरामध्यानकृद्वीरः सदा किम्पुरुषस्तुतः ॥ १२५ ॥

रामकार्यान्तरङ्गश्च शुद्धिर्गतिरनामयः ।
पुण्यश्लोकः परानन्दः परेशः प्रियसारथिः ॥ १२६ ॥

लोकस्वामी मुक्तिदाता सर्वकारणकारणः ।
महाबलो महावीरः पारावारगतिर्गुरुः ॥ १२७ ॥

समस्तलोकसाक्षी च समस्तसुरवन्दितः ।
सीतासमेतश्रीरामपादसेवाधुरन्धरः ॥ १२८ ॥

इति श्री आञ्जनेयसहस्रनामस्तोत्रम् ॥

– Chant Stotra in Other Languages –

Sri Hanuman Stotram » Sri Anjaneya Sahasranama Stotram Lyrics in English » Kannada » Telugu » Tamil