Sri Balakrishna Prarthana Ashtakam In Sanskrit

॥ Sri Balakrishna Prarthana Ashtakam Sanskrit Lyrics ॥

॥ श्रीबालकृष्णप्रार्थनाष्टकम् ॥
श्रीमद्यशोदाङ्कविहारदक्षे
तत्स्तन्यसक्ते निजभक्तरक्ते ।
गोवर्धनप्रीतिकरे परेऽस्मिन्
श्रीबालकृष्णे रतिरस्तु नित्यम् ॥ १ ॥

श्रीनन्दराजाङ्गणरन्तरश्मि- ??
किर्मीरिताङ्गद्युतिरम्यरम्ये । ??
तत्रानिशं क्रीडनतत्परेऽस्मिन्
श्रीबालकृष्णे रतिरस्तु नित्यम् ॥ २ ॥

मुखामृतं प्राश्य पदामृतं किं
वाञ्छन्ति निश्चेतुमतीव भक्ताः ।
आस्ये पदाङ्गुष्ठधरे ममास्मिन्
श्रीबालकृष्णे रतिरस्तु नित्यम् ॥ ३ ॥

नानामणिव्रातविभूषणानां
चापल्यतो मञ्चुलसिञ्जितैस्तैः ।
स्थिताञ्जितास्ये कृतमुग्धलास्ये
श्रीबालकृष्णे रतिरस्तु नित्यम् ॥ ४ ॥

घोषेषु गोपङ्कयुतेषु गत्या
प्रत्यङ्गमालिन्यविशेषहृद्ये ।
बाल्यात्कलालापमनोहरेऽस्मिन्
श्रीबालकृष्णे रतिरस्तु नित्यम् ॥ ५ ॥

स्निग्धामलाकुञ्चितकुन्तलस्पृग्-
वक्त्रेण भङ्गावृतपद्मशोभाम् ।
जहन्ति तस्मिन् मम नन्दसूनौ
श्रीबालकृष्णे रतिस्तु नित्यम् ॥ ६ ॥

दन्तद्वयेनार्जितकुन्दकोशे
द्वन्द्वोत्थशोभे नवनीरदाभे ।
हैयङ्गवीनाङ्कलितैकहस्ते
श्रीबालकृष्णे रतिरस्तु नित्यम् ॥ ७ ॥

हस्तेन नेत्रादपसारितेन
स्निग्धाञ्जनेनाक्तकपालदेशे ।
व्रजाङ्गनास्नेहसुधासुपात्रे
श्रीबालकृष्णे रतिरस्तु नित्यम् ॥ ८ ॥

इति श्रीबालकृष्णस्य वर्णनप्रार्थनाष्टकम् ।
वर्णितं जीवनाख्येन गोकुलोत्सवसूनुना ॥

इति श्रीवल्लभचरणैकतान श्रीमद्गोकुलोत्सवतनूद्भव-
श्रीजीवनेशविरचितं श्रीबालकृष्णशरणाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Krishna Slokam » Sri Balakrishna Prarthana Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Bhujangaprayat Ashtakam In Sanskrit