Sri Bhuvaneshvarya Ashtakam In Sanskrit

॥ Sri Bhuvaneshvarya Ashtakam Sanskrit Lyrics ॥

॥ श्रीभुवनेश्वर्यष्टकम् ॥
अथ श्रीभुवनेश्वर्यष्टकम् ।

श्रीदेव्युवाच –

प्रभो श्रीभैरवश्रेष्ठ दयालो भक्तवत्सल ।
भुवनेशीस्तवम् ब्रूहि यद्यहन्तव वल्लभा ॥ १ ॥

ईश्वर उवाच –

शृणु देवि प्रवक्ष्यामि भुवनेश्यष्टकं शुभम् ।
येन विज्ञातमात्रेण त्रैलोक्यमङ्गलम्भवेत् ॥ २ ॥

ऊं नमामि जगदाधारां भुवनेशीं भवप्रियाम् ।
भुक्तिमुक्तिप्रदां रम्यां रमणीयां शुभावहाम् ॥ ३ ॥

त्वं स्वाहा त्वं स्वधा देवि ! त्वं यज्ञा यज्ञनायिका ।
त्वं नाथा त्वं तमोहर्त्री व्याप्यव्यापकवर्जिता ॥ ४ ॥

त्वमाधारस्त्वमिज्या च ज्ञानज्ञेयं परं पदम् ।
त्वं शिवस्त्वं स्वयं विष्णुस्त्वमात्मा परमोऽव्ययः ॥ ५ ॥

त्वं कारणञ्च कार्यञ्च लक्ष्मीस्त्वञ्च हुताशनः ।
त्वं सोमस्त्वं रविः कालस्त्वं धाता त्वञ्च मारुतः ॥ ६ ॥

गायत्री त्वं च सावित्री त्वं माया त्वं हरिप्रिया ।
त्वमेवैका पराशक्तिस्त्वमेव गुरुरूपधृक् ॥ ७ ॥

त्वं काला त्वं कलाऽतीता त्वमेव जगतांश्रियः ।
त्वं सर्वकार्यं सर्वस्य कारणं करुणामयि ॥ ८ ॥

इदमष्टकमाद्याया भुवनेश्या वरानने ।
त्रिसन्ध्यं श्रद्धया मर्त्यो यः पठेत् प्रीतमानसः ॥ ९ ॥

सिद्धयो वशगास्तस्य सम्पदो वशगा गृहे ।
राजानो वशमायान्ति स्तोत्रस्याऽस्य प्रभावतः ॥ १० ॥

See Also  Sri Chandrashekhara Bharathi Navaratna Malika In English

भूतप्रेतपिशाचाद्या नेक्षन्ते तां दिशं ग्रहाः ।
यं यं कामं प्रवाञ्छेत साधकः प्रीतमानसः ॥ ११ ॥

तं तमाप्नोति कृपया भुवनेश्या वरानने ।
अनेन सदृशं स्तोत्रं न समं भुवनत्रये ॥ १२ ॥

सर्वसम्पत्प्रदमिदं पावनानाञ्च पावनम् ।
अनेन स्तोत्रवर्येण साधितेन वरानने ।
समप्दो वशमायान्ति भुवनेश्याः प्रसादतः ॥ १३ ॥

इति श्रीरुद्रयामले तन्त्रे श्रीभुवनेश्वर्यष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Goddess Durga Slokam » Sri Bhuvaneshvarya Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil