Sri Chandrashekhara Bharati Ashtakam In Sanskrit

॥ Sri Chandrashekhara Bharati Ashtakam Sanskrit Lyrics ॥

शिष्यवृन्दसेवितं समस्तदोषवर्जितं
भस्ममन्द्रराजितं पवित्रदण्डशोभितं ।
नम्रलोकपूजितं सुराधिराजभावितं
चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ १ ॥

चन्द्रचूडपूजनप्रसक्तचित्तमानसं
सत्त्वबोधनास्तहृद्यशिष्यवर्गसाध्वसं ।
पूर्णचन्द्रबिम्बकान्तिकान्तवक्त्रसारसं
चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ २ ॥

पादपद्मनम्रकामितार्थकल्पपादपं
सत्प्रसक्तिशुद्धचित्तभूमितापसाधिपं ।
विस्मितात्महृत्तमिस्रवारणे दिनाधिपं
चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ ३ ॥

प्राक्तनातिभाग्यराशिलब्धशैवतेजसं
शङ्करार्यसाम्प्रदायबोधनैकमानसं ।
वेदशास्त्रभाष्यतत्त्ववेदिनं महौजसं
चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ ४ ॥

शृङ्गशैलधर्मपीठशोभमानमूर्तिकं
शङ्करार्यशारदापदार्चकं सुबोधकं ।
चक्रराजपूजकं किरीटचारुमस्तकं
चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ ५ ॥

राजलक्ष्मलक्षितं समग्रराजपूजितं
सर्वशास्त्रपण्डितं स्वधर्मरक्षणीरतं ।
अक्षमाल्यमन्दितं पयोधिजाकटाक्षितं
चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ ६ ॥

गद्यपद्यवाक्ष्रवाहदेवतार्यसन्निभं
ज्ञानवार्धिकौस्तुभं सुकर्मनिष्ठवल्लभं ।
दुष्टलोकदुर्लभं भवाब्धितारकं शुभं
चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ ७ ॥

खण्डितान्यदर्शनं समर्थितात्मदर्शनं
पापतापमर्दनं सुपक्षसर्वसाधनं ।
भूतजातवारणं निवासभूमिपावनं
चन्द्रशेखरार्यराजमाश्रयामि मुक्तये ॥ ८ ॥

इति श्रीचन्द्रशेखरभारत्यष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Chandika Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Jina Suprabhat Ashtakam In Malayalam