Sri Dayananda Ashtakam In Sanskrit

॥ Sri Dayananda Ashtakam Sanskrit Lyrics ॥

॥ श्रीदयानन्दाष्टकम् ॥

श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।

अथ श्रीदयानन्दाष्टकम् ।
सरस्वतीकृपापात्रं दयानन्दसरस्वतीम् ।
यतिश्रेष्ठगुरुं वन्दे दयार्द्राक्षं स्मिताननम् ॥ १ ॥

वेदान्तसारसद्बोधं लोकसेवनसुव्रतम् ।
दयानन्दगुरुं वन्दे दयार्द्राक्षकृपाकरम् ॥ २ ॥

गीतासारोपदेशं च गीतसत्कविताप्रियम् ।
दयानन्दगुरुं वन्दे दयाङ्कितसुभाषितम् ॥ ३ ॥

अद्वैतबोधकं वन्दे विशिष्टाद्वैतबोधकम् ।
दयानन्दगुरुं वन्दे दयार्द्राननसान्त्वनम् ॥ ४ ॥

दयाकूटं तपस्कूटं विद्याकूटविराजकम् ।
दयानन्दगुरुं वन्दे दयादिसुगुणाश्रयम् ॥ ५ ॥

गङ्गातीरप्रबोधं च गङ्गापारतपस्स्थलम् ।
दयानन्दगुरुं वन्दे दयागङ्गास्रवास्रवम् ॥ ६ ॥

परमार्थगुरुं वन्दे तत्त्वबोधनतल्लजम् ।
श्रीदयानन्दशिष्यार्यं शान्तसत्त्वगुणास्पदम् ॥ ७ ॥

भारतश्रेष्ठरत्नं च सर्वलोकसुकीर्तितम् ।
दयानन्दगुरुं वन्दे अष्टकश्लोककीर्तितम् ॥ ८ ॥

गीतस्तोत्रप्रमोदाय ज्ञानाचार्याय मङ्गलम् ।
वेदशास्त्रप्रवीणाय दयानन्दाय मङ्गलम् ॥

त्यागराजगुरुस्वामिशिष्यापुष्पाभिलेखनम् ।
दयानन्दगुरुस्तोत्रं पठनीयं शुभप्रदम् ॥

इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
श्रीदयानन्दाष्टकं गुरौ समर्पितम् ।

– Chant Stotra in Other Languages –

Sri Dayananda Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Bhujangaprayat Ashtakam In Bengali