Sri Dayananda Mangalashtakam In Sanskrit

॥ Sanskrit Lyrics ॥

॥ श्रीदयानन्दमङ्गलाष्टकम् ॥

श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।

अथ श्रीदयानन्दमङ्गलाष्टकम् ।
शतकुम्भहृदब्जाय शतायुर्मङ्गलाय च ।
शताभिषेकवन्द्याय दयानन्दाय मङ्गलम् ॥ १ ॥

सहस्राब्जसुदर्शाय सहस्रायुतकीर्तये ।
सहजस्मेरवक्त्राय दयानन्दाय मङ्गलम् ॥ २ ॥

गङ्गादर्शनपुण्याय गङ्गास्नानफलाय च ।
गङ्गातीराश्रमावासदयानन्दाय मङ्गलम् ॥ ३ ॥

वेदोपनिषदागुप्तनित्यवस्तुप्रकाशिने ।
वेदान्तसत्यतत्त्वज्ञदयानन्दाय मङ्गलम् ॥ ४ ॥

शुद्धज्ञानप्रकाशाय शुद्धान्तरङ्गसाधवे ।
शुद्धसत्तत्त्वबोधाय दयानन्दाय मङ्गलम् ॥ ५ ॥

दमादिशमरूपाय यानन्दवाक्प्रबोधिने ।
स्वामिने सत्त्वबोधाय यथानाम्ने सुमङ्गलम् ॥ ६ ॥

अक्षरागुप्तसद्वाणीपूर्णप्रसादवाग्मिने ।
अक्षरश्लोकमालाय दयानन्दाय मङ्गलम् ॥ ७ ॥

त्यागब्रह्मगुरुस्वामिशिष्यापुष्पासुगीतये ।
दयानन्दसुपूर्णाय पूर्णायुषे सुमङ्गलम् ॥ ८ ॥

इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
श्रीदयानन्दमङ्गलाष्टकं गुरौ समर्पितम् ।
ॐ शुभमस्तु ।

– Chant Stotra in Other Languages –

Sri Dayananda Mangalashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Hanumad Ashtakam In Odia