Sri Devarajashtakam In Sanskrit

॥ Sri Devarajashtakam Sanskrit Lyrics ॥

॥ श्रीदेवराजाष्टकम् ॥
देवराजाष्टकम्
(काञ्च्यां वरदराज क्षेत्रे)

नमस्ते हस्तिशैलेश श्रीमन्नम्बुजलोचन ।
शरणं त्वां प्रपन्नोऽस्मि प्रणतार्तिहराच्युत ॥ १॥

समस्तप्राणिसन्त्राणप्रवीणकरुणोल्बणाः ।
विलसन्तु कटाक्षास्ते मय्यस्मिन् जगतां पते ॥ २॥

निन्दिताचारकरणं निवृत्तं कृत्यकर्मणः ।
पापीयांसममर्यादं पाहि मां वरद प्रभो ॥ ३॥

संसारमरुकान्तारे दुर्व्याधिव्याघ्रभीषिणे ।
विषयक्षुद्रगुल्माढ्ये तृषापादपशालिनि ॥ ४॥

पुत्रदारगृहक्षेत्रमृगतृष्णाम्बुपुष्कले ।
कृत्याकृत्यविवेकान्धं परिभ्रान्तमितस्ततः ॥ ५॥

अजस्रं जाततृष्णार्तमवसन्नाङ्गमक्षमम् ।
क्षीणशक्तिबलारोग्यं केवलं क्लेशसंश्रयम् ॥ ६॥

सन्तप्तं विविधैर्दुःखैर्दुर्वचैरेवमादिभिः ।
देवराज दयासिन्धो देवदेव जगत्पते ॥ ७॥

त्वदीक्षणसुधासिन्धुवीचिविक्षेपशीकरैः ।
कारुण्यमारुतानीतैश्शीतलैरभिषिञ्च माम् ॥ ८॥

इति श्रीकाञ्चीपूर्णविरचितं देवराजाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Vishnu Slokam » Sri Devarajashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Gurudevashtakam In Tamil