Sri Gandharvasamprarthanashtakam In Sanskrit

॥ Sri Gandharva Sampradan Ashtakam Sanskrit Lyrics ॥

॥ श्रीगान्धर्वासंप्रार्थनाष्टकम् ॥
श्रीगान्धर्वासंप्रार्थनाष्टकम्
श्रीश्रीगान्धर्विकायै नमः ।
वृन्दावने विहरतोरिह किलेकुञ्जे
मत्तद्विपप्रवरकौतुकविभ्रमेण ।
सन्दर्शयस्व युवयोर्वदनारविन्द
द्वन्द्वं विधेहि मयि देवि कृपां प्रसीद ॥ १ ॥

हा देवि काकुभरगद्गदयाद्य वाचा
याचे निपत्य भुवि दण्डवदुद्भटार्तिः ।
अस्य प्रसादमबुधस्य जनस्य कृत्वा
गान्धर्विके निजगणे गणनां विधेहि ॥ २ ॥

श्यामे रमारमणसुन्दरतावरिष्ठ
सौन्दर्यमोहितसमस्तजगज्जनस्य ।
श्यामस्य वामभुजबद्धतनुं कदाहं
त्वामिन्दिराविरलरूपभरां भजामि ॥ ३ ॥

त्वां प्रच्छदेन मुदिरच्छविना पिधाय
मञ्जीरमुक्तचरणां च विधाय देवि ।
कुञ्जे व्रजेन्द्रतनयेन विराजमाने
नक्तं कदा प्रमुदितामभिसारयिष्ये ॥ ४ ॥

कुञ्जे प्रसूनकुलकल्पितकेलितल्पे
संविष्टयोर्मधुरनर्मविलासभाजोः ।
लोकत्रयाभरणयोश्चरणाम्बुजानि
संवाहयिष्यति कदा युवयोर्जनोऽयम् ॥ ५ ॥

त्वत्कुण्डरोधसि विलासपरिश्रमेण
स्वेदाम्बुचुम्बिवदनाम्बुरुहश्रियो वाम् ।
वृन्दावनेश्वरि कदा तरुमूलभाजो
संवीजयामि चमरीचयचामरेण ॥ ६ ॥

लीनां निकुञ्जकुहरे भवतीं मुकुन्दे
चित्रैव सूचितवतीं रुचिराक्षि नाहम् ।
भुग्नां भ्रुवं न रचयेति मृषारुषां त्वां
अग्रे व्रजेन्द्रतनयस्य कदा नु नेष्ये ॥ ७ ॥

वाग्युद्धकेलिकुतुके व्रजराजसूनुं
जित्वोन्मदामधिकदर्पविकासिजल्पाम् ।
फुल्लाभिरालिभिरनल्पमुदीर्यमाण
स्तोत्रां कदा नु भवतीमवलोकयिष्ये ॥ ८ ॥

यः कोऽपि सुष्ठु वृषभानुकुमारिकायाः
संप्रार्थनाष्टकमिदं पठति प्रपन्नः ।
सा प्रेयसा सह समेत्य धृतप्रमोदा
तत्र प्रसादलहरीमुररीकरोति ॥ ९ ॥

See Also  Sri Bhuvaneshwari Shatanama Stotram In Sanskrit

इति श्रीरूपगोस्वामिविरचितस्तवमालायां
श्रीगान्धर्वासंप्रार्थनाष्टकं सम्पूर्णम् ।

-Chant Stotra in Other Languages –

Sri Krishna Slokam » Sri Gandharvasamprarthanashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil