Sri Ganesha Stavarajaha In Sanskrit

॥ Sri Ganesha Stavarajaha Sanskrit Lyrics ॥

॥ श्रीगणेशस्तवराजः ॥
गणेशाष्टकम् च ।

श्रीगणेशाय नमः । श्रीभगवानुवाच ।
गणेशस्य स्तवं वक्ष्ये कलौ झटिति सिद्धिदम् ।
न न्यासो न च संस्कारो न होमो न च तर्पणम् ॥ १ ॥

न मार्जनं च पञ्चाशत्सहस्रजपमात्रतः ।
सिद्ध्यत्यर्चनतः पञ्चशत-ब्राह्मणभोजनात् ॥ २ ॥

अस्य श्रीगणेशस्तवराजमन्त्रस्य भगवान् सदाशिव ऋषिः,
अनुष्टुप् छन्दः, श्रीमहागणपतिर्देवता,
श्रीमहागणपतिप्रीत्यर्थे जपे विनियोगः ।

विनायकैक-भावना-समर्चना-समर्पितं
प्रमोदकैः प्रमोदकैः प्रमोद-मोद-मोदकम् ।
यदर्पितं सदर्पितं नवान्नधान्यनिर्मितं
न कण्डितं न खण्डितं न खण्डमण्डनं कृतम् ॥ १ ॥

सजातिकृद्-विजातिकृत-स्वनिष्ठभेदवर्जितं
निरञ्जनं च निर्गुणं निराकृतिं ह्यनिष्क्रियम्
सदात्मकं चिदात्मकं सुखात्मकं परं पदं
भजामि तं गजाननं स्वमाययात्तविग्रहम् ॥२।
गणाधिप! त्वमष्टमूर्तिरीशसूनुरीश्वर-
स्त्वमम्बरं च शम्बरं धनञ्जयः प्रभञ्जनः ।
त्वमेवं दीक्षितः क्षितिर्निशाकरः प्रभाकर-
श्चराऽचर-प्रचार-हेतुरन्तराय-शान्तिकृत् ॥ ३ ॥

अनेकदं तमाल-नीलमेकदन्त-सुन्दरं
गजाननं नमोऽगजाननाऽमृताब्धि-चन्दिरम् ।
समस्त-वेदवादसत्कला-कलाप-मन्दिरं
महान्तराय-कृत्तमोऽर्कमाश्रितोऽन्दरूं परम् ॥ ४ ॥

सरत्नहेम-घण्टिका-निनाद-नुपुरस्वनै-
मृदङ्ग-तालनाद-भेदसाधनानुरूपतः ।
धिमि-द्धिमि-त्तथोंग-थोङ्ग-थैयि-थैयिशब्दतो
विनायकः शशाङ्कशेखरः प्रहृष्य नृत्यति ॥ ५ ॥

सदा नमामि नायकैकनायकं विनायकं
कलाकलाप-कल्पना-निदानमादिपरूषम् ।
गणेश्वरं गुणेश्वरं महेश्वरात्मसम्भवं
स्वपादपद्म-सेविना-मपार-वैभवप्रदम् ॥ ६ ॥

भजे प्रचण्ड-तुन्दिलं सदन्दशूकभूषणं
सनन्दनादि-वन्दितं समस्त-सिद्धसेवितम् ।
सुराऽसुरौघयोः सदा जयप्रदं भयप्रदं
समस्तविघ्न-घातिनं स्वभक्त-पक्षपातिनम् ॥ ७ ॥

See Also  Gajamukha Vandisuve In English

कराम्बुजात-कङ्कणः पदाब्ज-किङ्किणोगणो
गणेश्वरो गुणार्णवः फणीश्वराङ्गभूषणः ।
जगत्त्रयान्तराय-शान्तिकारकोऽस्तु तारको
भवार्णवस्थ-घोरदुर्गहा चिदेकविग्रहः ॥ ८ ॥

यो भक्तिप्रवणश्चरा-ऽचर-गुरोः स्तोत्रं गणेशाष्टकं
शुद्धः संयतचेतसा यदि पठेन्नित्यं त्रिसन्ध्यं पुमान् ।
तस्य श्रीरतुला स्वसिद्धि-सहिता श्रीशारदा सर्वदा
स्यातां तत्परिचारिके किल तदा काः कामनानां कथाः ॥ ९ ॥

॥ इति श्रीरुद्रयामलोक्तो गणेशस्तवराजः सम्पूर्णः ॥

– Chant Stotra in Other Languages –

Sri Ganapathi Slokam » Sri Ganesha Stavarajaha Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil