Sri Ganga Narayana Deva Ashtakam In Sanskrit

॥ Sri Ganga Narayana Deva Ashtakam Sanskrit Lyrics ॥

॥ श्रीगङ्गानारायणदेवाष्टकम् ॥
कुलस्थितान् कर्मिण उद्दिधीर्षु-
र्गङ्गैव यस्मिन् कृपयाविशेष ।
श्रीचक्रवर्ती दयतां स गङ्गा
नारायणः प्रेमरसाम्बुधिर्माम् ॥ १ ॥

नरोत्तमो भक्त्यवतार एव
यस्मिन् स्वभक्तिं निदधौ मुदैव ।
श्रीचक्रवर्ती दयतां स गङ्गा
नारायणः प्रेमरसाम्बुधिर्माम् ॥ २ ॥

वृन्दावने यस्य यशः प्रसिद्धं
अद्यापि गीयते सतां सदःसु ।
श्रीचक्रवर्ती दयतां स गङ्गा
नारायणः प्रेमरसाम्बुधिर्माम् ॥ ३ ॥

श्रीगोविन्ददेवद्विभुजत्वशंसि
श्रुतिं वदन् सद्विपदं निरास्थत् ।
श्रीचक्रवर्ती दयतां स गङ्गा
नारायणः प्रेमरसाम्बुधिर्माम् ॥ ४ ॥

सौशील्ययुक्तो गुणरत्नराशिः
पाण्डित्यसारः प्रतिभाविवस्वान् ।
श्रीचक्रवर्ती दयतां स गङ्गा
नारायणः प्रेमरसाम्बुधिर्माम् ॥ ५ ॥

जनान् कृपादृष्टिभिरेव सद्यः
प्रपद्यमानान् स्वपदेऽकरोद्यः ।
श्रीचक्रवर्ती दयतां स गङ्गा
नारायणः प्रेमरसाम्बुधिर्माम् ॥ ६ ॥

लोके प्रभुत्वं स्थिरभक्तियोगं
यस्मै स्वयं गौरहरिर्व्यतानीत् ।
श्रीचक्रवर्ती दयतां स गङ्गा
नारायणः प्रेमरसाम्बुधिर्माम् ॥ ७ ॥

वृन्दावनीयातिरहस्यभक्तेर्ज्ञानं
विना यः न कुतोऽपि सिद्ध्येत् ।
श्रीचक्रवर्ती दयतां स गङ्गा
नारायणः प्रेमरसाम्बुधिर्माम् ॥ ८ ॥

विश्रम्भवान् यश्चरणेषु
गङ्गानारायणप्रेमाम्बुराशेः ।
एतत्पठेदष्टकमेकचित्तः
स तत्परीवारपदं प्रयाति ॥ ९ ॥

See Also  Sri Muruka Ashtakam In Tamil

इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां
श्रीश्रीगङ्गानारायणदेवाष्टकं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Sri Ganga Narayana Deva Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil