Sri Gokulesh Ashtakam 2 In Sanskrit

॥ Sri Gokulesh Ashtakam 2 Sanskrit Lyrics ॥

॥ श्रीगोकुलेशाष्टकम् २ ॥
प्राणाधिकप्रेष्ठभवज्जनानां त्वद्विप्रयोगानलतापितानाम् ।
समस्तसन्तापनिवर्तकं यद्रूपं निजं दर्शय गोकुलेश ॥ १ ॥

भवद्वियोगोरगदंशभाजां प्रत्यङ्गमुद्यद्विषमूर्च्छितानाम् ।
सञ्जीवनं सम्प्रति तावकानां रूपं निजं दर्शय गोकुलेश ॥ २ ॥

आकस्मिकत्वद्विरहान्धकारसञ्छादिताशेषनिदर्शनानाम् ।
प्रकाशकं त्वज्जनलोचनानां रूपं निजं दर्शय गोकुलेश ॥ ३ ॥

स्वमन्दिरास्तीर्णविचित्रवर्णं सुस्पर्शमृद्वास्तरणे निषण्णम् ।
पृथूपधानाश्रितपृष्ठभागं रूपं निजं दर्शय गोकुलेश ॥ ४ ॥

सन्दर्शनार्थागतसर्वलोकविलोचनासेचनकं मनोज्ञम् ।
कृपावलोकहिततत्प्रसादं रूपं निजं दर्शय गोकुलेश ॥ ५ ॥

यत्सर्वदा चर्वितनागवल्लीरसप्रियं तद्रसरक्तदन्तम् ।
निजेषु तच्चर्वितशेषदं च रूपं निजं दर्शय गोकुलेश ॥ ६ ॥

प्रतिक्षणं गोकुलसुन्दरीणामतृप्तिमल्लोचनपानपात्रम् ।
समस्तसौन्दर्यरसौघपूर्णं रूपं निजं दर्शय गोकुलेश ॥ ७ ॥

क्वचित्क्षणं वैणिकदत्तकर्णं कदाचिदुद्गानकृतावधानम् ।
सहासवाचः क्व च भाषमाणं रूपं निजं दर्शय गोकुलेश ॥ ८ ॥

श्रीगोकुलेशाष्टकमिष्टदातृश्रद्धान्वितो यः पठितीति नित्यम् ।
पश्यत्पवश्यं स तदीयरूपं निजैकवश्यं कुरुते च हृष्टः ॥ ९ ॥

इति श्रीकृष्णरायविरचितं श्रीगोकुलेशाष्टकं समाप्तम् ।

– Chant Stotra in Other Languages –

Sri Krishna Slokam » Sri Gokulesh Ashtakam 2 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Krishnashtakam 4 In Sanskrit