Sri Gokulesha Ashtakam 3 In Sanskrit

॥ Sri Gokulesha Ashtakam 3 Sanskrit Lyrics ॥

॥ श्रीगोकुलेशाष्टकम् ३ ॥
यतिवशधरणीशे धर्मलोपप्रवृत्ते
हरिचरणसहायो यः स्वधर्मं जुगोप ।
विहितभजनभारो धर्मरक्षावतारः
स जगति जयति श्रीवल्लभो गोकुलेशः ॥ १ ॥

असदुदितविदारी वेदवादानुसारी
यदुचितहितकारी भक्तिमार्गप्रचारी ।
रुचिरतिलकधारी मालधारी तुलस्याः
स जयति जयति श्रीवल्लभो गोकुलेशः ॥ २ ॥

बहुविधिजननर्मप्रोक्तिबाणैरधर्मः
प्रकटमयति मर्मस्फोटमाराद्विधाय ।
वपुषि भजनवर्म प्राप्य कल्याणधर्मः
स जयति नवकर्मा गोकुले गोकुलेशः ॥ ३ ॥

निगमजनितधर्मद्रोहिणि क्षोणिनाथे
सकलसहजवेशस्तत्समीपं समेत्य ।
तदुचितमदमत्या दत्तवानुत्तरं यः
स जयति जनचित्तानन्दको गोकुलेशः ॥ ४ ॥

अधिकृतयुगधर्मे वर्धमाने समन्ता-
दनितशरणोऽसौ वेदधर्मो सदाभूऽत् । check
तदिह शरणमागाद्यः सदैकः शरण्यं
स जयति जनवन्द्यो गोकुले गोकुलेशः ॥ ५ ॥

कलिवृषलभयाप्तौ तत्कलिं सन्निगृह्य
क्षितिपतिरविताऽऽसीद्यस्य पूर्वं परीक्षित् ।
इह हि नृपतिभीतौ तस्य धर्मस्य नित्यं
स जयति भुवि गोप्ता गोकुले गोकुलेशः ॥ ६ ॥

प्रथममिह परीक्षिद्रक्षितो वर्णधर्मः
पुनरपि कलिकल्पक्षुद्रभिक्षुक्षतोऽभूत् ।
अभयपदमिदं यं शाश्वतं चाभ्युपेतः
स जयति निजभक्ताह्लादको गोकुलेशः ॥ ७ ॥

य इह सकललोके केवलं न स्वकीये
प्रभुजननबलेन स्थापयामास धर्मम् ।
सकलसुखविधाता गोकुलानन्ददाता
स जयति निजताताराधको गोकुलेशः ॥ ८ ॥

See Also  Sri Shani Deva Ashtottara Shatanama Stotram In Sanskrit

श्रीवल्लभाष्टकमिदं पठति प्रपन्नो
यः कृष्णरायकृतमित्युषसि स्वचित्तः ।
सोऽयं सुदुर्लभतमानपि निश्चयेन
प्राप्नोति वै विनिहितानखिलान् पदार्थान् ॥ ९ ॥

इति श्रीकृष्णरायविरचितं श्रीगोकुलेशाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Krishna Slokam » Sri Gokulesha Ashtakam 3 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil