Sri Gopal Deva Ashtakam In Sanskrit

॥ Sri Gopal Deva Ashtakam Sanskrit Lyrics ॥

॥ श्रीगोपालदेवाष्टकम् ॥
मधुरमृदुलचित्तः प्रेममात्रैकवित्तः
स्वजनरचितवेषः प्राप्तशोभाविशेषः ।
विविधमणिमयालङ्कारवान् सर्वकालं
स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ १ ॥

निरुपमगुणरूपः सर्वमाधुर्यभूपः
श्रिततनुरुचिदास्यः कोटिचन्द्रस्तुतास्यः ।
अमृतविजयिहास्यः प्रोच्छलच्चिल्लिलास्यः
स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ २ ॥

धृतनवपरभागः सव्यहस्तस्थितागः
प्रकटितनिजकक्षः प्राप्तलावण्यलक्षः ।
कृतनिजजनरक्षः प्रेमविस्तारदक्षः
स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ३ ॥

क्रमवलदनुरागस्वप्रियापाङ्गभाग
ध्वनितरसविलासज्ञानविज्ञापिहासः ।
स्मृतरतिपतियागः प्रीतिहंसीतडागः
स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ४ ॥

मधुरिमभरमग्ने भात्यसव्येऽवलग्ने
त्रिवलिरलसवत्त्वात्यस्य पुष्टानतत्वात् ।
इतरत इह तस्या माररेखेव रस्या
स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ५ ॥

वहति वलितहर्षं वाहयंश्चानुवर्षं
भजति च सगणं स्वं भोजयन् योऽर्पयन् स्वम् ।
गिरिमुकुटमणिं श्रीदामवन्मित्रताश्रीः
स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ६ ॥

अधिधरमनुरागं माधवेन्द्रस्य तन्वं-
स्तदमलहृदयोत्थां प्रेमसेवां विवृण्वन् ।
प्रकटितनिजशक्त्या वल्लभाचार्यभक्त्या
स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ७ ॥

प्रतिदिनमधुनापि प्रेक्ष्यते सर्वदापि
प्रणयसुरसचर्या यस्य वर्या सपर्या ।
गणयतु कति भोगान् कः कृती तत्प्रयोगान्
स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ८ ॥

गिरिधरवरदेवस्याष्टकेनेममेव
स्मरति निशि दिने वा यो गृहे वा वने वा ।
अकुटिलहृदयस्य प्रेमदत्वेन तस्य
स्फुरतु हृदि स एव श्रीलगोपालदेवः ॥ ९ ॥

See Also  Tiruppavai In Kannada

इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां
श्रीगोपालदेवाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Krishna Slokam » Sri Gopal Deva Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil