Sri Gopalalalashtakam In Sanskrit

॥ Sri Gopalalalashtakam Sanskrit Lyrics ॥

॥ श्रीगोपाललालाष्टकम् ॥
श्रीमदाचार्यचरणौ साष्टाङ्गं प्रणिपन्पतौ ।
विरच्यतेऽष्टकमिदं श्रीमद्गोपालपुष्टिदम् ॥ १ ॥

यस्यानुकम्पावशतः सुदुर्लभं
मानुष्यमाप्तं परमस्य पुंसः ।
सर्वार्थदं दीनदयालुमेकं
गोपाललालं शरणं प्रपद्ये ॥ २ ॥

योऽदात्स्वसेवोपयिकं शरीरं
साङ्गं समर्थं शुभमर्थदं च ।
सेवाऽनभिज्ञः परमस्य तस्य
गोपाललालं शरणं प्रपद्ये ॥ ३ ॥

निजाङ्गसन्दर्शनयोगयोग्यता
योऽदाद्दृशं मे परमो दयालुः ।
तदङ्गसौन्दर्य्यरसावभिज्ञो
गोपाललालं शरणं प्रपद्ये ॥ ४ ॥

श्रीमत्कथासंश्रवणोपयोगि-
श्रोत्रं ददौ यः करुणारसाब्धिः ।
कथामृतास्वादनमूढचेता
गोपाललालं शरणं प्रपद्ये ॥ ५ ॥

वाचं ददौ श्रीगुणज्ञानयोग्यां
व्रजाङ्गनाङ्गाभरणाङ्गमूर्तिम् ।
तथापि नाम्नामनुकीर्तनेऽलसो
गोपाललालं शरणं प्रपद्ये ॥ ६ ॥

घ्राणेन्द्रियं मे तुलसीविमिश्र-
पादाञ्जसन्दिग्धपरागयोग्यम् ।
ददौ कृपालुर्ह्यपराधिने यो
गोपाललालं शरणं प्रपद्ये ॥ ७ ॥

शिरश्च पादाम्बुजसन्प्रणाम-
योग्यं ददौ यो यदुवंशचन्द्रः ।
स्तुत्या च नत्या विनयेन हीनो
गोपाललालं शरणं प्रपद्ये ॥ ८ ॥

जनोऽपराधानसकृद्विकुर्वन्
श्रोतो भवेद्यस्तु मनाक्षमायाम् ।
नवालसस्तं करुणैकबन्धुं
गोपाललालं शरणं प्रपद्ये ॥ ९ ॥

इति श्रीमद्गोस्वामिश्रीगिरधरजीकृतं
श्रीगोपाललालाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Krishna Slokam » Sri Gopalalalashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Ganeshashtakam In Sanskrit