Sri Gopijana Vallabha Ashtakam 2 In Sanskrit

॥ Sri Gopijana Vallabha Ashtakam 2 Lyrics ॥

॥ श्रीगोपीजनवल्लभाष्टकम् २ ॥
नवाम्बुदानीकमनोहराय प्रफुल्लराजीवविलोचनाय

वेणुस्वनैर्मोदितगोकुलाय नमोऽस्तु गोपीजनवल्लभाय ॥ १ ॥

किरीटकेयूरविभूषिताय ग्रैवेयमालामणिरञ्जिताय ।
स्फुरच्चलत्काञ्चनकुण्डलाय नमोऽस्तु गोपीजनवल्लभाय ॥ २ ॥

दिव्याङ्गनावृन्दनिषेविताय स्मितप्रभाचारुमुखाम्बुजाय ।
त्रैलोक्यसम्मोहनसुन्दराय नमोऽस्तु गोपीजनवल्लभाय ॥ ३ ॥

रत्नादिमूलालयमाश्रिताय कल्पद्रुमच्छायसमाश्रिताय ।
हेमस्फुरन्मण्डलमध्यगाय नमोऽस्तु गोपीजनवल्लभाय ॥ ४ ॥

श्रीवत्सरोमावलिरञ्जिताय वक्षःस्थले कौस्तुभभूषिताय ।
सरोजकिञ्जल्कनिभांशुकाय नमोऽस्तु गोपीजनवल्लभाय ॥ ५ ॥

दिव्याङ्गुलीयाङ्गुलिरञ्जिताय मयूरपिच्छच्छविशोभिताय ।
वन्यस्रजालङ्कृतविग्रहाय नमोऽस्तु गोपीजनवल्लभाय ॥ ६ ॥

मुनीन्द्रवृन्दैरभिसंस्तुताय क्षरत्पयोगोकुलगोकुलाय ।
धर्मार्थकामामृतसाधकाय नमोऽस्तु गोपीजनवल्लभाय ॥ ७ ॥

एनस्तमःस्तोमदिवाकराय भक्तस्य चिन्तामणिसाधकाय ।
अशेषदुःखामयभेषजाय नमोऽस्तु गोपीजनवल्लभाय ॥ ८ ॥

इति श्रीवह्निसूनुविरचितं श्रीगोपीजनवल्लभाष्टकं समाप्तम् ।

– Chant Stotra in Other Languages –

Sri Gopijana Vallabha Ashtakam 2 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  108 Names Of Sri Guruvayupureshvara In Sanskrit