Sri Govinda Deva Ashtakam In Sanskrit

॥ Sri Govindadevashtakam Sanskrit Lyrics ॥

॥ श्रीगोविन्ददेवाष्टकम् ॥
जाम्बूनदोष्णीषविराजिमुक्ता
मालामणिद्योतिशिखण्डकस्य ।
भङ्ग्या नृणां लोलुपयन् दृशः श्री
गोविन्ददेवः शरणं ममास्तु ॥ १ ॥

कपोलयोः कुण्डललास्यहास्य-
च्छविच्छिटाचुम्बितयोर्युगेन ।
संमोहयन् सम्भजतां धियः श्री
गोविन्ददेवः शरणं ममास्तु ॥ २ ॥

स्वप्रेयसीलोचनकोणशीधु
प्राप्त्यै पुरोवर्ति जनेक्षणेन ।
भावं कमप्युद्गमयन् बुधानां
गोविन्ददेवः शरणं ममास्तु ॥ ३ ॥

वामप्रगण्डार्पितगण्डभास्वत्
ताटङ्कलोलालककान्तिसिक्तैः ।
भ्रूवल्गनैरुन्मदयन् कुलस्त्री-
र्गोविन्ददेवः शरणं ममास्तु ॥ ४ ॥

दूरे स्थितास्ता मुरलीनिनादैः
स्वसौरभैर्मुद्रितकर्णपालीः ।
नासारुधो हृद्गत एव कर्षन्
गोविन्ददेवः शरणं ममास्तु ॥ ५ ॥

नवीनलावण्यभरैः क्षितौ श्री
रूपानुरागाम्बुनिधिप्रकाशैः ।
सतश्चमत्कारवतः प्रकुर्वन्
गोविन्ददेवः शरणं ममास्तु ॥ ६ ॥

कल्पद्रुमाधोमणिमन्दिरान्तः
श्रीयोगपीठाम्बुरुहास्यया स्वम् ।
उपासयंस्तत्रविदोऽपि मन्त्रै-
र्गोविन्ददेवः शरणं ममास्तु ॥ ७ ॥

महाभिषेकक्षणसर्ववासोऽ
लङ्कृत्यङ्गीकरणोच्छलन्त्या ।
सर्वाङ्गभासाकुलयंस्त्रिलोकीं
गोविन्ददेवः शरणं ममास्तु ॥ ८ ॥

गोविन्ददेवाष्टकमेतदुच्चैः
पठेत्तदीयाङ्घ्रिनिविष्टवीर्यः ।
तं मज्जयन्नेव कृपाप्रवाहै-
र्गोविन्ददेवः शरणं ममास्तु ॥ ९ ॥

इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां
श्रीगोविन्ददेवाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Vishnu Slokam » Sri Govinda Deva Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Parasurama Ashtakam 3 In Malayalam