Sri Gurudevashtakam In Sanskrit

॥ Sri Guru Deva Ashtakam Sanskrit Lyrics ॥

॥ श्रीगुरुदेवाष्टकम् ॥
संसारदावानललीढलोक
त्राणाय कारुण्यघनाघनत्वम् ।
प्राप्तस्य कल्याणगुणार्णवस्य
वन्दे गुरोः श्रीचरणारविन्दम् ॥ १ ॥

महाप्रभोः कीर्तननृत्यगीत
वादित्रमद्यन्मनसो रसेन ।
रोमाञ्चकम्पाश्रुतरङ्गभाजो
वन्दे गुरोः श्रीचरणारविन्दम् ॥ २ ॥

श्रीविग्रहाराधननित्यनाना
शृङ्गारतन्मन्दिरमार्जनादौ ।
युक्तस्य भक्तांश्च नियुञ्जतोऽपि
वन्दे गुरोः श्रीचरणारविन्दम् ॥ ३ ॥

चतुर्विधश्रीभगवत्प्रसाद
स्वाद्वन्नतृप्तान् हरिभक्तसङ्घान् ।
कृत्वैव तृप्तिं भजतः सदैव
वन्दे गुरोः श्रीचरणारविन्दम् ॥ ४ ॥

श्रीराधिकामाधवयोरपार
माधुर्यलीलागुणरूपनाम्नाम् ।
प्रतिक्षणास्वादनलोलुपस्य
वन्दे गुरोः श्रीचरणारविन्दम् ॥ ५ ॥

निकुञ्जयूनो रतिकेलिसिद्ध्यै
या यालिभिर्युक्तिरपेक्षणीया ।
तत्रातिदाक्ष्यादतिवल्लभस्य
वन्दे गुरोः श्रीचरणारविन्दम् ॥ ६ ॥

साक्षाद्धरित्वेन समस्तशास्त्रै-
रुक्तस्तथा भाव्यत एव सद्भिः ।
किन्तो प्रभोर्यः प्रिय एव तस्य
वन्दे गुरोः श्रीचरणारविन्दम् ॥ ७ ॥

यस्य प्रसादाद्भगवत्प्रसादो
यस्याप्रसादान् न गतिः कुतोऽपि ।
ध्यायन् स्तुवंस्तस्य यशस्त्रिसन्ध्यं
वन्दे गुरोः श्रीचरणारविन्दम् ॥ ८ ॥

श्रीमद्गुरोरष्टकमेतदुच्चै-
र्ब्राह्मे मुहूर्ते पठति प्रयत्नात् ।
यस्तेन वृन्दावननाथ साक्षात्
सेवैव लभ्या जुषणोऽन्त एव ॥ ९ ॥

– Chant Stotra in Other Languages –

Sri Guru Slokam » Sri Gurudevashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Dvatrimsat Ganapathi Dhyana Slokah In Sanskrit