Sri Jagadamba Stutih In Sanskrit

॥ Sri Jagdamba Stuti Sanskrit Lyrics ॥

॥ श्रीजगदम्बा स्तुतिः ॥

नमोऽस्तु ते भगवति पापनाशिनि
नमोऽस्तु ते सुररिपुदर्पशातनि ।
नमोऽस्तु ते हरिहरराज्यदायिनि
नमोऽस्तु ते मखभुजकार्यकारिणि ॥ १ ॥

नमोऽस्तु ते त्रिदशरिपुक्षयङ्करि
नमोऽस्तु ते शतमखपादपूजिते ।
नमोऽस्तु ते महिषविनाशकारिणि
नमोऽस्तु ते हरिहरभास्करस्तुते ॥ २ ॥

नमोऽस्तु तेऽष्टादशबाहुशालिनि
नमोऽस्तु ते शुम्भनिशुम्भघातिनि ।
नमोऽस्तु लोकार्त्तिहरे त्रिशूलिनि
नमोऽस्तु नारायणि चक्रधारिणि ॥ ३ ॥

नमोऽस्तु वाराहि सदा धराधरे
त्वां नारसिंहि प्रणता नमोऽस्तु ते ।
नमोऽस्तु ते वज्रधरे गजध्वजे
नमोऽस्तु कौमारि मयूरवाहिनि ॥ ४ ॥

नमोऽस्तु पैतामहहंसवाहने
नमोऽस्तु मालाविकटे सुकेशिनि ।
नमोऽस्तु ते रासभपृष्ठवाहिनि
नमोऽस्तु सर्वार्तिहरे जगन्मये ॥ ५ ॥

नमोऽस्तु विश्वेश्वरि पाहि विश्वं
निषूदयारीन् द्विजदेवतानाम् ।
नमोऽस्तु ते सर्वमयि त्रिनेत्रे
नमो नमस्ते वरदे प्रसीद ॥ ६ ॥

ब्रह्माणी त्वं मृडानी वरशिखि-
गमना शक्तिहस्ता कुमारी
वाराही त्वं सुवक्त्रा खगपति-
गमना वैष्णवी त्वं सशार्ङ्गी ॥ ७ ॥

दुर्दृश्या नारसिंही घुरघुरि-
तरवा त्वं तथैन्द्री सवज्रा
त्वं मारी चर्ममुण्डा शवगमन-
रता योगिनी योगसिद्धा ।
नमस्ते-
त्रिनेत्रे भगवति तव चरणानुषिता
ये अहरहर्विनतशिरसोऽवनताः
नहि नहि परिभवमस्त्यशुभं च
स्तुतिबलिकुसुमकराः सततं ये ॥ ८ ॥

See Also  Shiva Mangalashtakam In Kannada

इति जगदम्बा स्तुतिः समाप्ता ।

– Chant Stotra in Other Languages –

Sri Durga Slokam » Sri Jagadamba Stutih Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil