Sri Krishna Sharanam Ashtakam In Sanskrit

॥ Sri Krishna Sharanam Ashtakam Sanskrit Lyrics ॥

द्विदलीकृतदृक्स्वास्यः पन्नगीकृतपन्नगः ।
कृशीकृतकृशानुश्च श्रीकृष्णः शरणं मम ॥ १ ॥

फलीकृतफलार्थी च कुस्सितीकृतकौरवः ।
निर्वातीकृतवातारिः श्रीकृष्णः शरणं मम ॥ २ ॥

कृतार्थीकृतकुन्तीजः प्रपूतीकृतपूतनः ।
कलङ्कीकृतकंसादिः श्रीकृष्णः शरणं मम ॥ ३ ॥

सुखीकृतसुदामा च शङ्करीकृतशङ्करः ।
सितीकृतसरिन्नाथः श्रीकृष्णः शरणं मम ॥ ४ ॥

छलीकृतबलिद्यौर्यो निधनीकृतधेनुकः ।
कन्दर्पीकृतकुब्जादिः श्रीकृष्ण शरणं मम ॥ ५ ॥

महेन्द्रीकृतमाहेयः शिथिलीकृतमैथिलः ।
आनन्दीकृतनन्दाद्यः श्रीकृष्णः शरणं मम ॥ ६ ॥

वराकीकृतराकेशो विपक्षीकृतराक्षसः ।
सन्तोषीकृतसद्भक्तः श्रीकृष्णः शरणं मम ॥ ७ ॥

जरीकृतजरासन्धः कमलीकृतकार्मुकः ।
प्रभ्रष्टीकृतभीष्मादिः श्रीकृष्णः शरणं मम ॥ ८ ॥

श्रीकृष्णः शरणं ममाष्टकमिदं प्रोत्थाय यः सम्पठेत्
स श्रीगोकुलनायकस्य पदवी संयाति भूमीतले ।
पश्यत्येव निरन्तरं तरणिजातीरस्थकेली प्रभोः
सम्प्राप्नोति तदीयतां प्रतिदिनं गोपीशतैरावृताम् ॥ ९ ॥

॥ इति श्रीदेवकीनन्दनात्मज श्रीरघुनाथप्रभुकृतं
श्रीकृष्णशरणाष्टकं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Sri Krishna Mantra » Sri Krishna Sharanam Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Svasvamiyugala Ashtakam In Kannada