Sri Krishna Sharanashtakam In Sanskrit

॥ Sri Krishna Sharanashtakam Sanskrit Lyrics ॥

सर्वसाधनहीनस्य पराधीनस्य सर्वतः ।
पापपीनस्य दीनस्य श्रीकृष्णः शरणं मम ॥ १ ॥

संसारसुखसम्प्राप्तिसन्मुखस्य विशेषतः ।
वहिर्मुखस्य सततं श्रीकृष्णः शरणं मम ॥ २ ॥

सदा विषयकामस्य देहारामस्य सर्वथा ।
दुष्टस्वभाववामस्य श्रीकृष्णः शरणं मम ॥ ३ ॥

संसारसर्वदुष्टस्य धर्मभ्रष्टस्य दुर्मतेः ।
लौकिकप्राप्तिकामस्य श्रीकृष्णः शरणं मम ॥ ४ ॥

विस्मृतस्वीयधर्मस्य कर्ममोहितचेतसः ।
स्वरूपज्ञानशून्यस्य श्रीकृष्णः शरणं मम ॥ ५ ॥

संसारसिन्धुमग्नस्य भग्नभावस्य दुष्कृतेः ।
दुर्भावलग्नमनसः श्रीकृष्णः शरणं मम ॥ ६ ॥

विवेकधैर्यभक्त्यादिरहितस्य निरन्तरम् ।
विरुद्धकरणासक्तेः श्रीकृष्णः शरणं मम ॥ ७ ॥

विषयाक्रान्तदेहस्य वैमुख्यहृतसन्मतेः ।
इन्द्रियाश्वगृहितस्य श्रीकृष्णः शरणं मम ॥ ८ ॥

एतदष्टकपाठेन ह्येतदुक्तार्थभावनात् ।
निजाचार्यपदाम्भोजसेवको दैन्यमाप्नुयात् ॥ ९ ॥

॥ इति हरिदासवर्यविरचितं श्रीकृष्णशरणाष्टकं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Sri Krishna Mantra » Sri Krishna Sharanashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Mahakala Bhairava Ashtakam In Bengali