Sri Lakshmi Narayana Ashtakam In Sanskrit

॥ Sri Lakshmi Narayana Ashtakam Sanskrit Lyrics ॥

श्रीलक्ष्मीनारायणाष्टकम्
आर्तानां दुःखशमने दीक्षितं प्रभुमव्ययम् ।
अशेषजगदाधारं लक्ष्मीनारायणं भजे ॥ १॥

अपारकरुणाम्भोधिं आपद्बान्धवमच्युतम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ २॥

भक्तानां वत्सलं भक्तिगम्यं सर्वगुणाकरम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ३॥

सुहृदं सर्वभूतानां सर्वलक्षणसंयुतम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ४॥

चिदचित्सर्वजन्तूनां आधारं वरदं परम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ५॥

शङ्खचक्रधरं देवं लोकनाथं दयानिधिम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ६॥

पीताम्बरधरं विष्णुं विलसत्सूत्रशोभितम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ७॥

हस्तेन दक्षिणेन यजं अभयप्रदमक्षरम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ८॥

यः पठेत् प्रातरुत्थाय लक्ष्मीनारायणाष्टकम् ।
विमुक्तस्सर्वपापेभ्यः विष्णुलोकं स गच्छति ॥

इति श्रीलक्ष्मीनारायणाष्टकम् सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Vishnu Slokam » Sri Lakshmi Narayana Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Shachisunva Ashtakam In Kannada