Sri Lalit Okta Totakashtakam In Sanskrit

॥ Lalitoktatotaka Ashtakam Sanskrit Lyrics ॥

॥ श्रीललितोक्ततोटकाष्टकम् ॥

नयनेरितमानसभूविशिखः
शिरसि प्रचलप्रचलाकशिखः ।
मुरलीध्वनिभिः सुरभीस्त्वरयन्
पशुपीविरहव्यसनं तिरयन् ॥ १ ॥

परितो जननीपरितोषकरः
सखि लम्पटयन्नखिलं भुवनम् ।
तरुणीहृदयं करुणी विदधत्
तरलं सरले करलम्बिगुणः ॥ २ ॥

दिवसोपरमे परमोल्लसितः
कलशस्तनि हे विलसद्धसितः ।
अतसीकुसुमं विहसन्महसा
हरिणीकुलमाकुलयन् सहसा ॥ ३ ॥

प्रणयिप्रवणः सुभगश्रवण
प्रचलन्मकरः ससखिप्रकरः ।
मदयन्नमरीर्भ्रमयन् भ्रमरी
मिलितः कतिभिः शिखिनां तातभिः ॥ ४ ॥

अयमुज्ज्वलयन् व्रजभूसरणीं
रमयन् क्रमणैर्मृदुभिर्धरणीम् ।
अजिरे मिलितः कलितप्रमदे
हरिरुद्विजसे तदपि प्रमदे ॥ ५ ॥

वद मा परुषं हृदये न रुषं
रचय त्वमतश्चल विभ्रमतः ।
उदिते मिहिकाकिरणे न हि का
रभसादयि तं भजते दयितम् ॥ ६ ॥

कलय त्वरया विलसत्सिचयः
प्रसरत्यभितो युवतीनिचयः ।
निदधाति हरिर्नयनं सरणौ
तव विक्षिप सप्रणयं चरणौ ॥ ७ ॥

इति तामुपदिश्य तदा स्वसखीं
ललिता किल मानितया विमुखीम् ।
अनयत् प्रसभादिव यं जवतः
कुरुतात् स हरिर्भविकं भवतः ॥ ८ ॥

इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीललितोक्ततोटकाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Adi Shankaracharya Stotram » Sri Lalit Okta Totakashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Shiva Manasika Puja Stotram In Sanskrit