Sri Lalita Ashtakam In Sanskrit

॥ Sree Lalitha Devi Ashtakam Sanskrit Lyrics ॥

॥ श्रीललिताष्टकम् ॥
श्रीललिताप्रणामस्तोत्रम्
श्रीललिताय नमः ।
राधामुकुन्द पदसम्भवघर्मबिन्दु
निर्मञ्छनोपकरणीकृत देहलक्षाम् ।
उत्तुङ्गसौहृदविशेषवशात् प्रगल्भां
देवीं गुणैः सुललितां ललितां नमामि ॥ १ ॥

राकासुधाकिरणमण्डलकान्तिदण्डि
वक्त्रश्रियं चकितचारू चमूरुनेत्राम् ।
राधाप्रसाधनविधानकलाप्रसिद्धां
देवीं गुणैः सुललितां ललितां नमामि ॥ २ ॥

लास्योल्लसद्भुजगशत्रुपतत्रचित्र
पट्टांशुकाभरणकञ्चुलिकाञ्चिताङ्गीम् ।
गोरोचनारुचिविगर्हण गौरिमाणं
देवीं गुणैः सुललितां ललितां नमामि ॥ ३ ॥

धूर्ते व्रजेन्द्रतनये तनु सुष्ठुवाम्यं
मा दक्षिणा भाव कलङ्किनि लाघवाय ।
राधे गिरं शृणु हितामिति शिक्षयन्तीं
देवीं गुणैः सुललितां ललितां नमामि ॥ ४ ॥

राधामभिव्रजपतेः कृतमात्मजेन
कूटं मनागपि विलोक्य विलोहिताक्षीम् ।
वाग्भङ्गिभिस्तमचिरेण विलज्जयन्तीं
देवीं गुणैः सुललितां ललितां नमामि ॥ ५ ॥

वात्सल्यवृन्दवसतिं पशुपालराज्ञ्याः
सख्यानुशिक्षणकलासु गुरुं सखीनाम् ।
राधाबलावरज जीवितनिर्विशेषां
देवीं गुणैः सुललितां ललितां नमामि ॥ ६ ॥

यां कामपि व्रजकुले वृषभानुजायाः
प्रेक्ष्य स्वपक्षपदवीमनुरुद्ध्यमानाम् ।
सद्यस्तदिष्टघटनेन कृतार्थयन्तीं
देवीं गुणैः सुललितां ललितां नमामि ॥ ७ ॥

राधाव्रजेन्द्रसुतसङ्गमरङ्गचर्यां
वर्यां विनिश्चितवतीमखिलोत्सवेभ्यः ।
तां गोकुलप्रियसखीनिकुरम्बमुख्यां
देवीं गुणैः सुललितां ललितां नमामि ॥ ८ ॥

नन्दनमूनि ललितागुणलालितानि
पद्यानि यः पठति निर्मलदृष्टिरष्टौ ।
प्रीत्या विकर्षति जनं निजवृन्दमध्ये
तं कीर्तिदापतिकुलोज्ज्वलकल्पवल्ली ॥ ९ ॥

See Also  Sri Parasurama Ashtakam 3 In Tamil

इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीललिताष्टकं
श्रीललिताप्रणामस्तोत्रं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Durga Slokam » Sri Lalita Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil