Sri Lokanath Prabhupada Ashtakam In Sanskrit

॥ Lokanath Prabhupada Ashtakam Sanskrit Lyrics ॥

श्रीलोकनाथप्रभुवराष्टकम्
यः कृष्णचैतन्यकृपैकवित्त-
स्तत्प्रेमहेमाभरणाढ्यचित्तः ।
निपत्य भूमौ सततं नमाम-
स्तं लोकनाथं प्रभुमाश्रयामः ॥ १ ॥

यो लब्धवृन्दावननित्यवासः
परिस्फुरत्कृष्णविलासरासः ।
स्वाचारचर्यसतताविराम-
स्तं लोकनाथं प्रभुमाश्रयामः ॥ २ ॥

सदोल्लसद्भागवतानुरक्त्या
यः कृष्णराधाश्रवणादिभक्त्या ।
अयातयामीकृतसर्वयाम-
स्तं लोकनाथं प्रभुमाश्रयामः ॥ ३ ॥

वृन्दावनाधीशपदाब्जसेवा
स्वादेऽनुमज्जन्ति न हन्त के वा ।
यस्तेष्वपि श्लाघातमोऽभिराम-
स्तं लोकनाथं प्रभुमाश्रयामः ॥ ४ ॥

यः कृष्णलीलारस एव लोकान्
अनुन्मुखान्वीक्ष्य बिभर्ति शोकान् ।
स्वयं तदास्वादनमात्रकाम-
स्तं लोकनाथं प्रभुमाश्रयामः ॥ ५ ॥

कृपाबलं यस्य विवेद कश्चित्
नरोत्तमो नाम महान्विपश्चित् ।
यस्य प्रथीयान्विषयोपराम-
स्तं लोकनाथं प्रभुमाश्रयामः ॥ ६ ॥

रागानुगावर्त्मनि यत्प्रसादा-
द्विशन्त्याविज्ञा अपि निर्विषादाः ।
जने कृतागस्यपि यस्त्ववाम-
स्तं लोकनाथं प्रभुमाश्रयामः ॥ ७ ॥

यद्दासदासानुदासदासाः
वय्हं भवामः फलिताभिलाषाः ।
यदीयतायां सहसा विशाम-
स्तं लोकनाथं प्रभुमाश्रयामः ॥ ८ ॥

श्रीलोकनाथाष्टकमत्युदारं
भक्त्या पठेद्यः पुरुषार्थसारम् ।
स मञ्जुलालीपदवीं प्रपद्य
श्रीराधिकां सेवत एव सद्यः ॥ ९ ॥

सोऽयं श्रीलोकनाथः स्फुरतु पुरुकृपारश्मिभिः स्वैः समुद्यन्
उद्धृत्योद्धृत्य यो नः प्रचुरतमतमः कूपतो दीपिताभिः ।
दृग्भिः स्वप्रेमवीथ्या दिशमदिशदहो यां श्रिता दिव्यलीला
रत्नाढ्यं विन्दमाना वयमपि निभृतं श्रीलगोवर्धनं स्मः ॥ १० ॥

See Also  Radha Ashtakam 3 In Tamil

इति श्रीमद्विश्वनाथचक्रवर्तिविरचितं
श्रीश्रीलोकनाथप्रभुवराष्टकं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Sri Krishna Slokam » Sri Lokanath Prabhupada Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil