Sri Manmahaprabhorashtakam Shrisvarupacharitamritam In Sanskrit

॥ Manmahaprabhorashtakam Shrisvarupacharitamritam Sanskrit Lyrics ॥

॥ श्रीमन्महाप्रभोरष्टकम् श्रीस्वरूपचरितामृतम् ॥
स्वरूप ! भवतो भवत्वयमिति स्मितस्निग्धया
गिरैव रघुनाथमुत्पुलकिगात्रमुल्लासयन् ।
रहस्युपदिशन् निजप्रणयगूढमुद्रां स्वयं
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ १ ॥

स्वरूप ! मम हृद्व्रणं बत विवेद रूपः कथं
लिलेख यदयं पठ त्वमपि तालपत्रेऽक्षरम् ।
इति प्रणयवेल्लितं विदधदाशु रूपान्तरं
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ २ ॥

स्वरूप ! परकीयसत्प्रवरवस्तुनाशेच्छतां
दधज्जन इह त्वया परिचितो न वेतीक्षयम् ।
सनातनमुदित्य विस्मितमुखं महाविस्मितं
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ३ ॥

स्वरूप ! हरिनाम यज् जगदघोषयं तेन किं
न वाचयितुमप्यथाशकमिमं शिवानन्दजम् ।
इति स्वपदलेहनैः शिशुमचीकरन् यः कविं
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ४ ॥

स्वरूप ! रसरीतिरम्बुजदृशां व्रजे भण्यतां
घनप्रणयमानजा श्रुतियुगं ममोत्कण्ठते ।
रमा यदिह मानिनी तदपि लोकयेति ब्रुवन्
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ५ ॥

स्वरूप ! रसमन्दिरं भवसि मन्मुदामास्पदं
त्वमत्र पुरुषोत्तमे व्रजभुवीव मे वर्तसे ।
इति स्वपरिरम्भणैः पुलकिनं व्यधात्तं च यो
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ६ ॥

See Also  Sri Govardhanashtakam In Kannada

स्वरूप ! किमपीक्षितं क्व नु विभो निशि स्वप्नतः
प्रभो कथय किं नु तन्नवयुवा वराम्भोधरः ।
व्यधात्किमयमीक्ष्यते किमु न हीत्यगात्तां दशां
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ७ ॥

स्वरूप ! मम नेत्रयोः पुरत एव कृष्णो हसन्न्
उपैति न करग्रहं बत ददाति हा किं सखे ।
इति स्खलति धावति श्वसिति घूर्णते यः सदा
विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः ॥ ८ ॥

स्वरूपचरितामृतं किल महाप्रभोरष्टकं
रहस्यतममद्भुतं पठति यः कृती प्रत्यहम् ।
स्वरूपपरिवारतां नयति तं शचीनन्दनो
घनप्रणयमाधुरीं स्वपदयोः समात्वादयन् ॥ ९ ॥

इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां
श्रीमहाप्रभोरष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Manmahaprabhorashtakam Shrisvarupacharitamritam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil