Sri Mukundashtakam In Sanskrit

॥ Sri Mukundashtakam Sanskrit Lyrics ॥

॥ श्रीमुकुन्दाष्टकम् ॥
श्रीमुकुन्दाय नमः ।
बलभिदुपलकान्तिद्रोहिणि श्रीमदङ्गे
घुसृणरसविलासैः सुष्ठु गान्धर्विकायाः ।
स्वमदननृपशोभां वर्धयन् देहराज्ये
प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ १ ॥

उदितविधुपरार्धज्योतिरुल्लङ्घिवक्त्रो
नवतरुणिमरज्यद्बाल्यशेषातिरम्यः ।
परिषदि ललितालीं दोलयन् कुण्डलाभ्यां
प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ २ ॥

कनकनिवहशोभानन्दि पीतं नितम्बे
तदुपरि नवरक्तं वस्त्रमित्थं दधानः ।
प्रियमिव किल वर्णं रागयुक्तं प्रियायाः
प्रणयतु मम नेत्राभीष्टपूर्तिं मुकुन्दः ॥ ३ ॥

सुरभिकुसुमवृन्धैर्वासिताम्भःसमृद्धे
प्रियसरसि निदाघे सायमालीपरीताम् ।
मदनजनकसेकैः खेलयन्न् एव राधां
प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ ४ ॥

परमलमिह लब्ध्वा हन्त गान्धर्विकायाः
पुलकिततनुरुच्चैरुन्मदस्तत्क्षणेन ।
निखिलविपिनदेशान् वासितान् एव जिघ्रन्
प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ ५ ॥

प्रणिहितभुजदण्डः स्कन्धदेशे वराङ्ग्याः
स्मितविकसितगण्डे कीर्तिदाकन्यकायाः ।
मनसिजजनिसौख्यं चुम्बनेनैव तन्वन्
प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ ६ ॥

प्रमददनुजगोष्ठ्याः कोऽपि संवर्तवह्नि-
र्व्रजभुवि किल पित्रोर्मूर्तिमान् स्नेहपुञ्जः ।
प्रथमरसमहेन्द्रः श्यामलो राधिकायाः
प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ ७ ॥

स्वकदनकथयाङ्गीकृत्य मृद्वीं विशाखां
कृतचटु ललितां तु प्रार्थन् प्रौढशीलाम् ।
प्रणयविधुरराधामानविध्वंसनाय
प्रणयतु मम नेत्राभीष्टसिद्धिं मुकुन्दः ॥ ८ ॥

परिपठति मुकुन्दस्याष्टकं काकुभिर्यः
सकलविषयसङ्गात् सन्नियम्येन्द्रियाणि ।
व्रजनवयुवराजो दर्शयन् स्वं सराधे
स्वजनगणनमध्ये तं प्रियायास्तनोति ॥ ९ ॥

See Also  Chaitanya Ashtakam 3 In English

इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीमुकुन्दाष्टकं समाप्तम् ।

– Chant Stotra in Other Languages –

Sri Mukundashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil