Sri Nandiswara Ashtakam In Sanskrit

॥ Nandiswara Ashtakam Sanskrit Lyrics ॥

॥ श्रीनन्दीश्वराष्टकम् ॥
साक्षान्महत्तममहाघनचिद्विलास
पुञ्जः स्वयं शिखरिशेखरतामुपेतः ।
यत्रेश्वरः स खलु नन्दति येन वेति
नन्दीश्वरः स मदमन्दमुदं दधातु ॥ १ ॥

ब्रह्माण्डवप्रगतलोकनिकायशस्य
सन्तर्पि कृष्णचरितामृतनिर्झराढ्यः ।
पर्जन्यसन्ततिसुखास्पदपूर्वको यो
नन्दीश्वरः स मदमन्दमुदं दधातु ॥ २ ॥

यत्सौभगं भगवता धरणीभृतापि
न प्राप्यते सुरगिरिः स हि को वराकः ।
नन्दः स्वयं वसति यत्र सपुत्रदारो
नन्दीश्वरः स मदमन्दमुदं दधातु ॥ ३ ॥

यत्र व्रजाधिपपुराप्रतिमप्रकाश
प्रासादमूर्धकलशोपरिनृत्यरङ्गी ।
बर्हीक्ष्यते भुवि जयध्वजकेतुभूतो
नन्दीश्वरः स मदमन्दमुदं दधातु ॥ ४ ॥

यच्छृङ्गसङ्गतसुगन्धशिलाधिरूढः
कृष्णः सतृष्णनयनः परितो व्रजाब्जम् ।
आलोक्यते द्विषडुदारदालाटवीस्ता
नन्दीश्वरः स मदमन्दमुदं दधातु ॥ ५ ॥

जिग्ये यदीयतटराजिसरोजराजि
सौरभ्यमञ्जुलसरोजलशीकरेण ।
त्रैलोक्यवर्तिवरतीर्थयशो रसौघै-
र्नन्दीश्वरः स मदमन्दमुदं दधातु ॥ ६ ॥

यत्तीरसङ्गिपवनैरभिमृश्यमानाः
स्युः पावना अपि जनाः स्वदशां परेषाम् ।
सा पावनाख्यसरसी यदुपत्यकायां
नन्दीश्वरः स मदमन्दमुदं दधातु ॥ ७ ॥

कृष्णाख्यमस्ति महदुज्ज्वलनीलरत्नं
सूते तदेव वसु तत्स्वभुवैव दृष्टम् ।
तल्लभ्यते सुकृतिनैव यदीयसानौ
नन्दीश्वरः स मदमन्दमुदं दधातु ॥ ८ ॥

दुर्वासनाशतवृतोऽपि भवत्प्रयत्नः
पद्याष्टकं पठति यः शिखरीश तुभ्यम् ।
कृष्णाङ्घ्रिपद्यरस एव सदा सतृष्णं
एतं जनं कुरु गुरुप्रणयं दधानम् ॥ ९ ॥

See Also  Sri Vraja Navayuva Raja Ashtakam In Kannada

इति महामहोपाध्यायश्रीविश्वनाथचक्रवर्तिविरचितं
श्रीनन्दीश्वराष्टकं समाप्तम् ।

– Chant Stotra in Other Languages –

Sri Nandiswara Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil