Sri Narasimhabharatipadashtakam In Sanskrit

॥ Sri Narasimhabharatipadashtakam Sanskrit Lyrics ॥

॥ श्रीनरसिंहभारतीपादाष्टकम् ॥
श्रीकीर्तिप्रतिभानां भवनं भविता यदीयपदनत्या
तान्दासीकृतभूपान्वन्दे नरसिंहभारतीपादान् ॥ १ ॥

चित्रं यन्मुखचन्द्रालोकाद्विकसन्ति चित्तपद्मानि ।
शिष्याणामनिशं तान्वन्दे नरसिंहभारतीपादान् ॥ २ ॥

सरसान्कवितासारान्वर्षत्यास्येषु नम्रजनतायाः ।
यदपाङ्गवारिदस्तान्वन्दे नरसिंहभारतीपादान् ॥ ३ ॥

एनःपर्वतभेदे शतकोटिधुरं दधाति यद्भक्तिः ।
पापाब्धिबाडवांस्तान्वन्दे नरसिंहभारतीपादान् ॥ ४ ॥

यद्वाक्श्रुतिर्नराणां भवसागरतारणे नौका ।
शीलितनिगमान्तांस्तान्वन्दे नरसिंहभारतीपादान् ॥ ५ ॥

त्रासितकामगजेन्द्रान्स्ववचश्चातुर्यतोषितार्यजनान् ।
क्रोधाहिवैनतेयान्वन्दे नरसिंहभारतीपादान् ॥ ६ ॥

वितरणधिक्कृतकर्णान्क्षमया निर्धूतमेदिनीगर्वान् ।
विरतिविधूतार्यशुकान्वन्दे नरसिंहभारतीपादान् ॥ ७ ॥

यत्पादाम्बुजभक्तिस्तत्त्वप्रासादगमननिःश्रेणी ।
तान्नतसुखाब्धिचन्द्रान्वन्दे नरसिंहभारतीपादान् ॥ ८ ॥

भूषितविभाण्डकात्मजजनिभूमीन्कीर्तिराजितदिगन्तान् ।
विश्वोत्तंसितपादान्वन्दे नरसिंहभारतीपादान् ॥ ९ ॥

स्तुतिमेनां गुरुकृपया रचितामवनावहर्निशं पठताम् ।
करुणानीरधयः स्युर्हृष्टा नरसिंहभारतीपादाः ॥ १० ॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीनरसिंहभारतीपादाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Narasimhabharatipadashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

 

See Also  Chaitanya Ashtakam 2 In Sanskrit