Sri Narottama Ashtakam In Sanskrit

॥ Sri Narottama Ashtakam Sanskrit Lyrics ॥

॥ श्रीनरोत्तमाष्टकम् ॥
श्रीकृष्णनामामृतवर्षिवक्त्र
चन्द्रप्रभाध्वस्ततमोभराय ।
गौराङ्गदेवानुचराय तस्मै
नमो नमः श्रीलनरोत्तमाय ॥ १ ॥

सङ्कीर्तनानन्दजमन्दहास्य
दन्तद्युतिद्योतितदिङ्मुखाय ।
स्वेदाश्रुधारास्नपिताय तस्मै
नमो नमः श्रीलनरोत्तमाय ॥ २ ॥

मृदङ्गनादश्रुतिमात्रचञ्चत्
पदाम्बुजामन्दमनोहराय ।
सद्यः समुद्यत्पुलकाय तस्मै
नमो नमः श्रीलनरोत्तमाय ॥ ३ ॥

गन्धर्वगर्वक्षपणस्वलास्य
विस्मापिताशेषकृतिव्रजाय ।
स्वसृष्टगानप्रथिताय तस्मै
नमो नमः श्रीलनरोत्तमाय ॥ ४ ॥

आनन्दमूर्च्छावनिपातभात
धूलीभरालङ्कृतविग्रहाय ।
यद्दर्शनं भाग्यभरेण तस्मै
नमो नमः श्रीलनरोत्तमाय ॥ ५ ॥

स्थले स्थले यस्य कृपाप्रपाभिः
कृष्णान्यतृष्णा जनसंहतीनाम् ।
निर्मूलिता एव भवन्ति तस्मै
नमो नमः श्रीलनरोत्तमाय ॥ ६ ॥

यद्भक्तिनिष्ठा पलरेखिकेव
स्पर्शः पुनः स्पर्शमणीव यस्य ।
प्रामाण्यमेवं श्रुतिवद्यदीयं
तस्मै नमः श्रीलनरोत्तमाय ॥ ७ ॥

मूर्तैव भक्तिः किमयं किमेष
वैराग्यसारस्तनुमान् नृलोके ।
सम्भाव्यते यः कृतिभिः सदैव
तस्मै नमः श्रीलनरोत्तमाय ॥ ८ ॥

राजन्मृदङ्गकरतालकलाभिरामं
गौराङ्गगानमधुपानभराभिरामम् ।
श्रीमन्नरोत्तमपदाम्बुजमञ्जुनृत्यं
भृत्यं कृतार्थयतु मां फलितेष्टकृत्यम् ॥ ९ ॥

इति श्रीमद्विश्वनाथचक्रवर्तिविरचितं श्रीनरोत्तमाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Narottama Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Yamunashtakam 10 In Telugu