Sri Navanita Priya Ashtakam In Sanskrit

॥ Sri Navanita Priya Ashtakam Sanskrit Lyrics ॥

॥ श्रीनवनीतप्रियाष्टकम् ॥
अलकावृतलसदलिके विरचितकस्तूरिकातिलके ।
चपलयशोदाबाले शोभितभाले मतिर्मेऽस्तु ॥ १ ॥

मुखरितनूपुरचरणे कटिबद्धक्षुद्रघण्टिकावरणे ।
द्वीपिकरजकृतभूषणभूषितहृदये मतिर्मेऽस्तु ॥ २ ॥

करधृतनवनवनीते हितकृतजननीविभीषिकाभिते ।
रतिमुद्वहताच्चेतो गोपीभिर्वश्यतां नीते ॥ ३ ॥

बालदशामतिमुग्धे चोरितदुग्धे व्रजाङ्गनाभवनात् ।
तदुपालम्भवचोभयविभ्रमनयने मतिर्मेऽस्तु ॥ ४ ॥

व्रजकर्दमलिप्ताङ्गे स्वरूपसुषमाजितानङ्गे ।
कृतनन्दाङ्गणरिङ्गण विविधविहारे मतिर्मेऽस्तु ॥ ५ ॥

करवरधृतलघुलकुटे विचित्रमायूरचन्द्रिकामुकुटे ।
नासागतमुक्तामणिजटितविभूषे मतिर्मेऽस्तु ॥ ६ ॥

अभिनन्दनकृतनृत्ये विरचितनिजगोपिकाकृत्ये ।
आनन्दितनिजभृत्ये प्रहसनमुदिते मतिर्मेऽस्तु ॥ ७ ॥

कामादपि कमनीये नमनीये ब्रह्मरुद्राद्यैः ।
निःसाधवभजनीये भावतनौ मे मतिर्भूयात् ॥ ८ ॥

इति श्रीहरिदासविरचितं श्रीनवनीतप्रियाष्टकं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Sri Navanita Priya Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Mangalanayika Ashtakam In Odia